SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३य अध्यायः चिकित्सितस्थानम् । २५१५ वृद्धतमदोषारब्धे । मध्यो दोषानुसारेणैव ज्ञेयः । तथा हुल्वगतरेऽपि सन्निपाते द्वौ दोषौ तरेणैव ज्ञेयौ । वृद्धवृद्धतरवृद्धतम दोषारब्धे च त्रिदोषे अत्यर्थवृद्धदोषास्तु तमैज्ञेयाः । येन, “त्रिषु तमः" इति यदुक्तम्, तत् विषु मध्ये एकस्य प्रकर्षावधारणे भवति । यदा तु विषु द्वौ प्रकृष्टौ विवक्षितौ तदा एकप्रकृष्टापेक्षया द्वयोस्तरेणेत्यस्यैव विषयः । समैस्तु समदोषान्धः संसर्गः सन्निपातश्च ज्ञेयः । दोषक्रमापेक्षीति अनेक सकलदोषगत वृद्धिवृद्धितरवृद्धितमत्वादिविशेषे चिकित्सितोपयुक्ते अपेक्षणीयत्वमुक्तम् । क्रमापेक्षीत्यनेन च ज्वरितचिकित्सितोक्तलङ्घनादिक्रमोऽपेक्षणीय इति दर्शितम् । यथोक्तैरौषधैरिति लङ्घनादिभिरञ्जनपर्यन्तेः । ननु च विदोषजे ज्वरे चिकित्सा नोपपद्यते, तो न विदोषशमनं प्रायो द्रव्यं भवति । यदि वाते सुपथ्यम् तत् श्लेष्मण्यपथ्यम्, यत् पित्ते पथ्यम् तत् प्रायः श्लेष्मण्यपथ्यम् । यद्वा तिक्तकषायं कफपित्तहरं तद् वातकरम्, यश्च मधुरं वातपित्तहरं तत् कफकरम्, यत् तु त्रिदोषहरमामलकादि तत् स्तोकं प्रतिनियतरोगविषयं बलवर्णरक्षायौगिकम् । सन्निपातश्चायं महात्ययिकः, तत् कथमस्य चिकित्सा कर्त्तव्येत्याह -- वर्द्धनेनेत्यादि । पञ्चविंशतिप्रकारोइस सन्निपात उच्यते "दुल गैकोल्वगैः षट् स्युर्हीनमध्यादिकैश्च पट्" इत्यादिना । तत्र, स्वमान - क्षीणेषु सन्निपातेषु द्वादशसु अवरारम्भकत्वं नास्ति, क्षोणदोषाः स्वलिङ्गहानिमातविकारा नाधिकं ज्वरं क्रतु ं समर्थाः, शेषेषु तु लयोदशसु विदोषहरद्रव्यस्याभावात् अभ्यर्हितदोषापेक्षया द्वयोश्चिकित्सोच्यते गत्यन्तराभावात् । तल, वर्द्धनेनैकदोषस्येत्यनेन एकदोषस्य वर्द्धनेनापीत्यर्थः । 'एक' शब्देन च वृद्धो दोष एवापेक्षितः, न वृद्धतरो नापि वृद्धतमः । तयोर्हि सतोवृ द्वयोर्वर्द्वनेनातिवृद्धया अत्यहितमेव स्मात् । वर्द्धनेनैकदोषस्येति वृद्धतरवृद्धतमदोषक्षयेण एकदोषवर्द्धनेन, यथा वृद्धे कफे वृद्धतरयोश्च वातपित्तयोर्मधुरम्, तद्वि वृद्धतरवातपित्तक्षपकतया कफं क्षीणं वर्द्धयदपि ज्वरं बलवद्दोषहन्तृतया हरति । तथा वृद्धे कफे वृद्धतरे च वाते वृद्धतरे च पित्ते मधुरयोगो ज्ञेयः । एवमुदाहरणान्तराणि ज्ञेयानि । अतस्त्वत वर्द्धनेनैकदोषस्येत्यनेन, इल्वणानां वयाणां तथा हीनमध्याधिकदोषाणां निपातानां चिकित्सोक्ता । क्षपणेनैकदोषस्येत्यनेन च क्षीणद्वयसंवर्द्धकमपि यन्महात्ययवृद्वतरवृद्धतमदोषक्षपकं भवति, तद् भेषजं कर्तव्यम्, वृद्धतमो ह्यतिकृतः सद्यो हन्ति तत्प्रक्रियाया क्षीणयोवृ द्विरत्यल्पायासक्रमेण प्रतिकर्त्तव्येति भावः । अनेनैकोल्वणास्त्रयः सन्निपाताः चिकित्सिताः । अस्मिन्नर्थे तन्त्रान्तरे “न्यूनैकदोषसं वृद्धिरेक वृद्धजयोऽपि वा । सन्निपातेषु कर्त्तव्यः सन्निपातवशेन तु" । परिशिष्टसमसन्निपात चिकित्सामाह- कफस्थानानुपूर्व्या वेति । 'वा' शब्दो व्यवस्थितविकल्पवाची । कफस्थानम् आमाशयोद्ध भाग इत्यर्थः । आनुपूर्व्यनुक्रमः । तेन, कफस्थानातु-पूजयेदिति कफस्थानं प्रथमं जयेत्, स्थानग्रहणेन स्थानिनः कफस्यापि ग्रहणम्, कफजयस्तु साक्षानोक्तः । तत्स्थानस्यैवामाशयस्य ज्वराम्भक दोषेण दृष्टस्य चिकित्सोपदर्शनार्थम् । उक्त हि-ज्वरो ह्यामाशयसमुद्भवः” इत्यादि । एवञ्च समा अपि दोषा ज्ववारम्भका यस्मादामाशयं विशेषेण दूषयत्वा उत्ररं कुर्व्वन्ति, तस्मात् स्थानानुगुणैश्च ज्वरे प्रथमं चिकित्सा कर्त्तव्या । स्थानिदोषापेक्षया हि. स्थानमेव प्रथमं चिकित्स्यम्; यदुक्तम् - "स्थानं जयेद्धि पूर्व्वम्” इति ; स्थानं तस्य कफस्य स्थानम् । तत्र लघ्वन्नपाचनादिक्रिया ज्वरे प्रथमप्रतिपादिता क्रियत एव; एतच्च यद्यपि सर्व्वज्वरस्य साधारणं चिकित्सितम् तथापि सन्निपाते बलवत्तरवाते चिकित्सा पूर्व्वज्वरचिकित्सा Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy