________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५१२
फरक-संहिता। [ ज्वरचिकित्सितम् चारूपचितगात्राश्च तरुण्यो यौवनोष्मणा । आश्लेषाच्छमयन्त्याशु प्रमदाः शिशिरं ज्वरम् ॥ १६८॥ स्वेदनान्यन्नपानानि वातश्लेष्महराणि च । शीतज्वरं जयन्त्याशु संसर्गबलयोजनात् ॥ १६६ ॥
प्रावरणादिकम् । तानि सर्वाणि शीतं ज्वरश्चाशु प्रशमयन्ति। धूपाश्च घना बहला अगुरुजा अगुरुकाष्ठमङ्गारे ज्वलति क्षिप्खा कृताः शीतं उवरश्चाशु प्रशमयन्ति ॥१६७॥
गङ्गाधरः-चार्चित्यादि। प्रमदाः काममदप्रकर्षास्तरुण्यो द्वात्रिंशद्वर्षान्तषोडशवर्षाधिकवयस्काः स्त्रियश्चारूपचितगात्राः सुमनोहराकारेण नातिस्थूलतया नातिकृशतया प्रवृद्धदेहा आश्लेषादालिङ्गनाद यौवनोष्मणा शिशिरज्वरं प्रशमयन्त्याशु ॥१६८॥
गङ्गाधरः-स्वेदनानीत्यादि। स्वेदनानि यद्यपि त्रयोदशविधः स्वेद इत्य नेन स्वेद उक्तस्तथापि तदितराननिस्वेदानामातपश्वासरोधादिजानां संग्रहार्थ पुनरत्र स्वेदनानीत्युक्तम् । अन्नपानानि वातश्लेष्महराणि वातहरश्लेष्महरतदुभयहरविल्वादिपञ्चमूलादिकृतानि, संसर्गबलयोजनात् संसर्गबलेन तत्तद्वातश्लेष्महरद्रव्याणां संयोगवलेन योजनात् शीतं ज्वरमाशु जयन्ति ॥१६९ ॥
अपि। एतच्च शयनाच्छादनं पृथगप्मत्र हितमिति पृथक्पाठं दर्शयति । घना इति बहलाः । स्वेदनानि उष्णानि कुक्कुटमदिराकुलत्यादीनि । संसर्गबलयोजनादित्यत्र अन्तरोक्त एवोष्णाभिप्रायः ज्वरकरो वातकफसंसर्गः 'संसर्ग'शब्देन गृह्यते। तेन वातकफसंसर्गे यदि वातो बलवान्, तदा गुरूष्णस्निग्धभूयिष्ठमनुपानम् यदा कफो बलवान्, तदा लघूष्णरुक्षप्रायं विधेयमित्यर्थः। अयज्ञ वातकफजे ज्वरे विशेषेण वायोर्योगवाहितया शीतो भवतीति कृत्वेहोक्तिः । तेन केवलकफजः केवलवातजोऽपि शीताभिप्रायो शेय एव ॥ १६६-१६९ ॥
For Private and Personal Use Only