________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः चिकित्सितस्थानम्।
२५१३ निरामे वातजे चैव पुराणे क्षयजे ज्वरे।। लधनं न हितं विद्याच्छमनस्तमुपाचरेत् ॥ १७० ॥ ® सामा ये ये च कफजाः कफपित्तज्वराश्च ये।
लङ्घनं लड़नीयोक्तं तेषु कार्य प्रति प्रति ॥ १७१॥ गङ्गाधरः-दाहादि-शीतादिभेदेनोक्तज्वरयोश्चिकित्सामुक्त्वा वातादिभेदन चोक्तानां ज्वराणां चिकित्सामाह-निरामे इत्यादि। पूर्व ज्वराहते क्षयानिलभयेत्यादिना वातजे क्षयजे च ज्वरे सामे यो लङ्गनप्रतिषेधः कृतः। अत्र निरामेऽपि लङ्घनं प्रतिषेधयति। 'निरामे सर्वस्मिन्नेव ज्वरे नैराम्ये मध्यावस्थायां वातजे च सविस्थे एव पुराणे द्वादशदिनादूद्धश्च सर्वस्मिन्न व ज्वरे क्षयजे च ज्वरे सासु सामाद्यवस्थासु लङ्घनं हितं न विद्यात्। अत्र दोषज्वरप्रकरणाद् भयादिजे खागन्तुजे दोषजे सामवातज्वरे च तदेव ज्वरे पूर्व यल्लङ्घनं निषिद्धं तन्नात्रोक्तम् ॥ १७०॥
गङ्गाधरः-ननु तर्हि कस्मिन् ज्वरे लङ्घनं कार्यमित्यत आह-सामा ये
चक्रपाणिः-सम्प्रति वातजादीनां ज्वराणां पूर्वनिषिद्धं लङ्घनमुल्लेख्य विशेषचिकित्सामाहवातज इत्यादि। शमनैरिति कषायसर्पिःपानादिभिः शमनैः ॥ १७॥ । चक्रपाणिः- सम्प्रति वातजादीनामप्यवस्थायां लङ्घनं, तथा कफजादीनामपि स्वरूपेणैव
* इतःपरम् अधिकानि खल्वेतानि पद्यानि कुलचित् दृश्यन्ते। तद् यथाविक्षिप्यामाशयोष्माणं यस्माद् गत्वा रसं नृणाम् । ज्वरं कुर्वन्ति दोषास्तु हीयतेऽग्निबलं ततः॥ यथा प्रज्वलितो वह्निः स्थाल्यामिन्धनवानपि। न पचत्योदनं सम्यगनिलप्रेरितो वहिः॥ पक्तिस्थानात् तदा दोषैरुष्मा क्षिप्तो वहिनृणाम्। न पचत्यभ्यवहृतं कृच्छ्रात् पचति वा लघु ॥ अतोऽग्निबलरक्षार्थ लङ्घनादिक्रमो हितः। सप्ताहेन हि पच्यन्ते सप्तधातुगता मलाः ॥ निरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि। उदीर्णदोस्स्वल्पाग्निरश्नन् गुरु विशेषतः॥ मुच्यते सहसा प्रागैश्चिरं क्लिश्यति वा नरः। एतस्मात् कारणाद् विद्वान् वातिके प्यादितो ज्वरे ॥ नातिगुवति वा स्निग्धं भोजयेत् सहसा नरम् । ज्वरे मारुत जे त्वादावनपेक्ष्यापि हि क्रमम् ॥ कुर्याभिरनुबन्धानामभ्थनादीनुपक्रमान् । पाययित्वा कषायञ्च भोजयेद् रसभोजनम् ॥ जीर्णज्वरहरं कुर्यात् सर्वशश्वाप्युपक्रमम्। श्लेष्मलानामवातानां ज्वरोऽनुष्णे कफाधिकः ॥ परिपाक म सप्ताहे नापि याति मृदूष्मणाम्। तं क्रमेण यथोक्तेन लखनाल्पाशनादिना। आदशाहमुपक्रम्य कषायादेवरुपाचरेत् ॥ इति ।
For Private and Personal Use Only