________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५१०
चरक संहिता। [ उवरचिकित्सितम् पिप्पली-सर्षपाश्वगन्धा-रास्ना रुहावरोहा बलातिबला वचा गुडूचीशतपुष्पा-शीतवल्ली-नाकुलीछगन्धनाकुली-श्वेता - ज्योतिष्मती चित्रकाध्यण्डाम्लचाङ्गरी-तिल बदर-कुलत्थानाम्, एवंविधानामन्येषाञ्चोष्णवीर्याणां यथालाभमोषधानां कषायं कारयेत् । तेन कषायेण तेषाञ्चैव कल्केन सुरासौवीरतुषोदकमैरेयमेदकदधिमण्डारनालकटरप्रतिविनीतेन तैलपात्रं विपाचयेत्। तेन सुखोष्णेनोष्णाभिप्रायं ज्वरितमभ्यज्यात्, तस्य शीतज्वरः प्रशाम्यति । कालमालकः । पर्णासः कृष्णपर्णासः। क्षवकः हाँचियामूलम्। फणिज्झक आस्फोतभेदः । भूस्तृण उलयामूलम् । शृङ्गवेरादीनि चखारि स्फुटानि। रुहा स्वनामख्यातक्षः। अवरोहा वटावरोहः । बलादीनि त्रीणि स्पष्टानि। गुड़ ची पद्मगुडूची। शीतवल्ली। नाकुली रास्नाभेदः धारुया इति लोके । गन्धनाकुली सुगन्धीति ख्याता । श्वेता श्वेतापराजिता । ज्योतिष्मती घोषकभेदः । चित्रकम्। अध्यण्डा । अम्लचाङ्गेरी आमरुलिः । तिलादीनि त्रीणि स्पष्टानि। एवंविधानामुष्णवीर्याणाम् अन्येषाञ्च द्रव्याणां चव्यमरिचादीनाम्। यथालाभमिति “समस्तं वर्गमद्ध वा यथालाभमथापि वा । गणोक्तानां प्रयुञ्जीत द्रव्याणि मतिमान् भिषक” इति परिभाषा ख्यापिता । कपायं काथविधिनाष्टगुणे जले पक्त्वा काथं कारयेत् । तेन कषायेण तैलसमेन तेषामेवागुर्बादीनां कल्केन च तैलपादिकेन सुरादीनां प्रत्येकमष्टानां तैलसममानेन तैलपात्रं द्वगुण्यात् षोड़शशरावमितं तैलं विपचेत् । सुरा प्रसिद्धा। सौवीरं काञ्जिकभेदः सतुषधान्यकृतमम्लजलम् । तुषोदकं सतुषयवकृतमम्लजलम् । मैरेयकं मदिराप्रभेदः । मेदकञ्च मद्यभेदः । दधिमण्डो दधिमस्तु । आरनालं काञ्जिकम् । कटूरं ससारकतक्रम् । प्रतिविनीतेन प्रत्येक समारोनांवा पितेन। “पञ्च प्रभृति यत्र स्युट्रैवाणि स्नेहसंविधौ। तत्र स्नेहसमान्याहुराक च स्याच्चतुगुणम्” इति परिभाषा बोध्या। तेन पक्कन तैलेनाभ्यङ्गकाले सुखोष्णीकृत्य उष्णाभिप्रायमुष्णाभिलाषं ज्वरितमभ्यज्यात् । रोहाञ्जलिकारिका । शीतपर्णी वृक्षकलम्म्बूका । नाकुली चविका । गन्धनाकुली रास्नाभेदः । अध्यण्डा शुकशिम्बी। अन्येषाचे त्यनेन रोगभिषजितीयोक्तोरणद्रव्याणि ग्राहयन्ति। सौवीरकतुषोदके निवृत्कल्पे वक्ष्यमाणे। मेरेयं सुराकृतसुरा । मेदकोऽजगलः। कटुरं सस्नेहदधिवः । पात्रम्
* शीतपर्णीति वा पाठः ।
For Private and Personal Use Only