________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०८
चरक-संहिता। ज्वरचिकित्सितम् नयस्तडागाः पद्मिन्यो हृदाश्च विमलोदकाः। अवगाहे हिता दाह-तृष्णाग्लानिज्वरापहाः॥ १६२ ॥ प्रियाः प्रदक्षिणाचाराः प्रमदाश्चन्दनोक्षिताः। शान्तयेऽयुः छ परैः कामैर्मणिमौक्तिकभूषणाः ॥ १६३ ॥ शीतानि चान्नपानानि शीतान्युपवनानि च। वायवश्चन्द्रपादाश्च शीता दाहज्वरापहाः ॥ १६४ ॥ अथोष्णाभिप्रायाणां ज्वरितानाम् अभ्यगादीनुपक्रमाननुव्याख्यास्यामः। अगुरु-कुष्ठ-तगर-नलद-पत्र-शैलेयक-ध्यामक
गङ्गाधरः-नय इत्यादि। तस्य दाहतृष्णावतो वातपित्तोदीर्णज्वरिणोऽवगाहे पभिन्यो नद्यस्तड़ागाच पमिनो हुदाश्च विमलोदका हिता दाहादिहराश्च स्युः॥१६२॥
गङ्गाधरः-प्रिया इत्यादि। तस्यं दाहादीनां शान्तये परैरुत्कृष्टः कामैर्मदनविह्वलचित्तेन लालसाभिः प्रमदाः प्रकृष्टं मदवत्यः स्त्रियो युवतयो याः प्रिया भवन्ति प्रदक्षिणाचाराः प्रकर्षण दाक्षिण्यमानुकूल्यम् आचरितुं शीलवत्यश्च भवन्ति, ताश्चन्दनोक्षिताः प्रक्षितचन्दनाङ्गास्तथा मणिमौक्तिकभूषणाः सत्यस्तं ज्वरिणमयुमैच्छेयुः ॥१३॥
गङ्गाधरः-शीतानीत्यादि । तथास्य ज्वरिणः शीतानि चानानि वार्यभादीनि शीतानि पानानि नारिकेलोदकादीनि शीतानि पुष्पकदल्यादीनां कृत्रिमवनानि च शीताश्च वायवश्चन्द्रपादाश्चन्द्रस्य ज्योत्स्ना शीतवाहज्वरापहाः। इति शीताभिप्रायज्वरितस्याभ्यगादीनि व्याख्यातानि ॥१६४॥ गङ्गाधरः-अथोष्णाभिप्रायज्वरितस्य अभ्यङ्गादयो व्याख्यास्यन्ते-अथेत्यादि। उष्णाभिमायाणां शीतार्तानां ज्वरितानाम् । आदिना प्रदेहावगाहपरिषेकान् । अगुन्नित्यादि। अगुरु कृष्णागुरु । कुष्ठम् । तगरं तगरपादिकम् । नलदम् हि तेषामप्युष्णता स्यात् । वायवश्चन्द्रपादाः शीता इति अत्र चाकृतोष्णस्वदर्शनात् शीता इति विशेषणेन चन्द्रपादानां तेषां सर्वदा शीतत्वम् । किंवा, चन्द्रपादा अपि अत्युष्णकाले रजनीषु अनुष्णा एवोष्णसम्पर्कादृष्णा भवन्ति, तमिरासार्थ शीता इति ॥ १६०-१६५ ॥ • सान्त्वयेयुः इति चक्रादितः पाठः साधीयान् ।
For Private and Personal Use Only