SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्य अध्यायः ] चिकित्सितस्थानम् । भवन्ति चात्र । पौष्करेषु सुशीतेषु पद्मोत्पलदलेषु च । कदलीनाश्च @ पत्रेषु चौमेषु विमलेषु च ॥ चन्दनोदकशीतेषु दाहार्त्तः संविशेत् सुखम् । हिमाम्बुपूर्णे + सदने शीते धारागृहेऽपि वा ॥ १५६ ॥ हेमशङ्खप्रबालानां मणीनां मौक्तिकस्य च । चन्दनोदकशीतानां ना संस्पर्शान् रसान् + स्पृशेत् ॥ १६०॥ स्रग्भिर्नीलोत्पलैः पद्मर्व्यजनैर्विविधैरपि । शीतवातकरैर्वीज्यश्चन्दनोदकवर्षिभिः ॥ १६९ ॥ Acharya Shri Kailassagarsuri Gyanmandir २५०७ गङ्गाधरः- अथ दाहज्वरे योगान्तरानाह श्लोकः - पौष्करेष्वित्यादि । पुष्करं वृक्षविशेषस्तस्य दलेषु च पद्मदलेषु च उत्पलदलेषु च कदलीनां पत्रेषु कोमलेषु श्रौमेषु विमलेषु वस्त्रेषु सर्व्वेषु चन्दनोदकशीतेषु श्वेतचन्दनघषेणेन कृतोदकसिक्तेषु संविशेत् शयीत । हिमेत्यादि । हिमाम्बुपूर्णे हिमाम्बुभिः पूर्णः कोष्ठो यस्य सदनस्य तत्र सदनेऽथवा शीते सदनेऽथवा धारागृहे यत्रनालेन जलधारया युक्ते गृहे शयीत ।। १५९ ।। गङ्गाधरः – हेमेत्यादि । हेम्नः सम्यक्स्पर्शान् वातपित्तोत्तरजीर्णज्वरी पुरुषः स्पृशेत् । अथवा शङ्खस्य संस्पर्शानथवा प्रवालस्य संस्पर्शानथवा मणीनां संस्पर्शानथवा मौक्तिकस्य संस्पर्शानथवा श्वेतचन्दन घर्षणजोदकशीतानां द्रव्याणां सस्पर्शान् रसान् द्रवान् स्पृशेत् ।। १६० ।। गङ्गाधरः– स्रग्भिरित्यादि । तथा नीलोत्पलैः पद्मर्वा कृताभिः स्रभिः मालाभिः । विविधैस्तालवृन्तमय-कदलीपत्र -माणपत्र - निम्बपत्र - पद्मपत्र- चामरादिभिर्व्यजनैः शीतवातकरैः शीतमेव वातं कर्त्त शीलवद्भिश्वन्दनोदकसिक्तैरेव चन्दनोदकवर्षिभिश्चन्दनोदकघर्षणशीलैः वीज्यः व्यजनीकाय्र्यः स ज्वरो ना स्यात् ।। १६१ ।। For Private and Personal Use Only चक्रपाणिः - संस्पर्शानुरसान् स्पृशेदिति वचनान्न चिरं धारयेदिति दर्शयति । चिरवारणे कहाराणान्चेति पाठान्तरम् । + सिक्ते इति पाठान्तरम् । ● * संस्पर्शानुरसान् पिबेदिति चक्रधृतः पाठः ।
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy