________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०६
चरक संहिता ।
[ ज्वरचिकित्सितम्
सद्यो दाहज्वरं प्रशमयति । एतैरेव चौषधैः श्लक्ष्णपिष्टैः शीतैः प्रदेहं कारयेत् । एतैरेव च भृतशीतं सलिलमवगाहपरिषेकार्थं प्रयुञ्जीत ॥ १५७ ॥
इति चन्दनादि तैलादि ।
मद्यारनाल - क्षीर- सौवीर - दधिघृतसलिलसेकावगाहाश्च सद्यो दाहज्वरमपनयन्ति शीतस्पर्शत्वादिति ॥ १५८ ॥
*
तैलपाकोऽपि तैले फेनोऽधिको मत इति लक्षणेन सम्यक् पकमवताय्र्य अभ्यङ्गार्थम् । एतदभ्यङ्गाद्धि सद्यो दाहज्वरं प्रशमयति ।
दाहज्वरेऽभ्यङ्गमुक्त्वा प्रदेहादीनाह-- एतैरेवेत्यादि । एतैरुक्तैश्चन्दनादिभिरौषधे जेलेन श्लक्ष्णपिष्टैः सुशीतेः प्रदेहं कारयेत् दाहज्वरप्रशमन : एष प्रदेहः । परिषेकाद्यर्थ जलमाह - एतैरेवेत्यादि । एतैरुक्तैरेव चन्दनादिभिरौषधैः मृतशीतश्च सलिलमर्द्धमृतं जलमवगाहार्थं परिषेकाथेश्च प्रयुञ्जीत ।। १५७ ॥ इति दाहज्वरे चन्दनादीनि तैलादीनि । गङ्गाधरः- सेकावगाहान्तरमाह - मदेप्रत्यादि । सौवीरं तुषोदकम् ॥ १५८ ॥ स्नेहपादिकत्वं कल्कस्य "कल्कश्च स्नेहपादिकः" इति वचनात् । सध इति शीघ्रम् । अत्र यद्यपि तैलमुष्ण ं घृतञ्च शीतलं, शीतञ्च दाहप्रशमने प्रशस्तम्, तथापि सूक्ष्ममार्गानुसारितया व्यवायितया च तथा स्पर्ननेनाधिकवातहरतया तैलमेवाभ्यङ्गऽधिकृतम्, न घृतम् । अन्ये तु घृतादपि तैलं संस्कारवाहितरमिति कृत्वा तैलमिहोक्तमिति ब्रुवते । ननु 'चन्दनायम्' इति संज्ञाकरणे किं प्रयोजनम् ? प्रदेशान्तरे व्यवहारार्थमिति चेत्, न, विनापि संज्ञाकरणात् प्रदेशान्तरे यौगिकसंज्ञाव्यवहारो दृष्टः, यथा - " षट्पलं वा पिबेत् सर्पिः” तथा “वासाघृतं दाधिकं
पिबेत्” इति 'श्रूषणाद्यम्' इत्यादौ तथाकृतायामपि संज्ञायां व्यवहारो न दृश्यते । यथा व 'एतत् पारुषिकं सर्पिः' इति, तथा षड्भागकषायकादिसंज्ञां कृत्वा न वा ताभिः प्रदेशान्तरे व्यवहारः कृतः । मैवम् । पारुषिकादिसंज्ञाया यद्यपि शास्त्र व्यवहारो नास्ति, तथापि तद्विद्यानां वैद्यानां तया संज्ञया व्यवहारो भविष्यति, एतदर्थ' संज्ञाकरणम् । संज्ञानाञ्च प्रयोगकथनसमये अकारणोपयोगसिद्धाः संज्ञा भवन्त्येव षट्पलादिकाः । तेन प्रदेशान्तरेऽपि यौगिकसंज्ञाव्यवहारो भवति क्वचित् क्वचिच्चान्यधोपादेयतया वैद्यप्रसिद्धया च प्रयोगसमय एव संज्ञा क्रियत इति न क्वचित् क्षतिः । एवमन्यत्रापि संज्ञाकरणे व्याख्येयम् । 'अश्लक्ष्ण पिष्टैः' इति वचनेन लक्ष्णपिष्टपस्य दाहकतां सूचयति । यदुक्तम् - " लक्ष्णपिष्टघनो लेपश्चन्दनस्यापि दाहकृत् । त्वग्गतस्योष्मणो रोधात् शीतकृत् त्वन्यथागुरोः” इति ॥ १५७ ॥ १५८ ॥
For Private and Personal Use Only