________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५००
चरक-संहिता। ज्वरचिकित्सितम् स्थिरा बला च तत् सव्वं पयस्यर्बोदके शृतम्। क्षोरावशेषं निर्म्यहं संयुक्तं चौद्रसर्पिषा ॥ कल्कैमदनमुस्तानां पिप्पल्या मधुकस्य च। . वत्सकस्य च संयुक्तं वस्तिं दद्याज्ज्वरापहम् ॥ शुद्ध मार्गे हृते दोषे विप्रसन्नेषु धातुषु। गताङ्गशूलो लघ्वङ्गः सद्यो भवति विज्वरः॥ १४८॥
वस्तिः । आरवधमुशीराणि मदनस्य फलानि च। पर्यश्चतस्रो मधुकं निर्य्यहमुपकल्पयेत् ॥ प्रियङ्गर्मदनं मुस्तं शताह्वा मधुयष्टिका । कल्कः सर्पिगडः क्षौद्र ज्वरघ्नो वस्तिरुत्तमः ॥ १४६ ॥
वस्तिः । पत्राणि । रोहिणी तिक्तेति कटुरोहिणी। स्थिरा शालपर्णी। अोदके अर्द्धसुदकं यत्र तस्मिन्नोदके पयसि गोक्षीरे द्विभागे भागेकं जलं दत्त्वा तयो योरष्टमांश पटोलादीनां कल्कं दत्त्वा पक्त्वा क्षीरावशेषं तं निय्यूहं क्षौद्रसर्पिषानुरूपेण संयुक्तं कृखा तथा मदनफलमुस्तकपिप्पलीयष्टीमधुकवत्सकवीजानां कल्केयुक्तं कृता वस्तिं निरूहवस्तिं ज्वरापहं दद्यात् । अनेन शुद्ध मार्गे स्रोतसि इत्यादौ सति सद्यो विज्वरो भवति। एकोऽयं निरूहवस्तिः ॥१४८॥
गङ्गाधरः-आरग्वधमित्यादि। आरग्वधस्य फलमध्यं, पर्ण्यश्चतस्त्र इति शालपर्णी पृश्निपर्णी माषपर्णी मुद्गपर्णीति चतस्रः पर्ण्यः। आरग्वधादीनि द्रव्याण्यष्टौ काथविधिना निय्यूह काथमुपकल्पयेत् साधयेत्। तत्र काथे पूते प्रियङ्गमदनफलमुस्तकशताहायष्टीमधुकानां पश्चानां कल्कं गव्यं सर्पिः पुराणगुई पुराणमधु च दत्त्वा आलोड्य वस्तिविधेयः। इति द्वितीयो निरूहवस्तिः॥१४९॥ पटोलाय निरूहे 'पयस्योदके शृतम्' इत्यनेन क्षीरतुल्यस्य जलस्य ग्रहणम्, 'अर्द्ध'शब्दस्य समप्रविभागवचनत्वाज्ज्ञ यम् । अत्र च क्वाथकल्कस्नेहादिमानव्यवस्थितिः सिद्रिस्थाने वक्तव्यैव बोदव्या ॥ १४८॥ १४९॥
For Private and Personal Use Only