SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३य अध्यायः चिकित्सितस्थानम् । गुड़ चीं त्रायमाणाञ्च चन्दनं मधुकं वृषम् । स्थिरां बलां पृश्निपर्णी मदनञ्चेति साधयेत् ॥ रसं जाङ्गलमांसस्य रसेन सहितं भिषक् । पिप्पलीफलमुस्तानां कल्केन मधुकस्य च ॥ ईषत्सलवणं युक्तं निरूहं चौद्रसर्पिषा । ज्वरप्रशमनं दद्याबलस्वेदरुचिप्रदम् ॥ १५० ॥ वस्तिः । जीवन्तीं मधुकं मेदां पिप्पलीं मदनं वचाम् । ऋद्धिं रास्नां बलां विल्वं शतपुष्पां शतावरीम् ॥ पिष्ट्रा चोरं जलं सर्पिस्तैलञ्च विपचेद् भिषक् । अनुवासनिकं स्नेहमेतद् दद्याज्ज्वरापहम् ॥ १५१ ॥ Acharya Shri Kailassagarsuri Gyanmandir २५०१ अनुवासनम् । गङ्गाधरः - गुडचीमित्यादि । वृषं बासकमूलम् । मदनं मदनफलम् । इति गुडूच्यादि - मदनान्तानि नव द्रव्याणि काथविधिना रसं कार्यं साधयेत् भिषक् । रसं तं कार्यं, जाङ्गलानां हरिणादीनां मांसस्य रसं साधयित्वा तेन मांसरसेन सहितं, पिप्पलीमदनफलमुस्तकयष्टिमधुकानां कल्केन च युक्तम्, ईपत्सलवणं सैन्धवलवणेन सहितमीपल्लवणरसं क्षौद्रसर्पिपा युक्तं कृत्वा निर्मथ्य निरूह दद्यात् । एवं तृतीयवस्तिः ।। १५० ।। गङ्गाधरः- अथ रुक्षबद्धपुरीषाय प्रदद्यादनुवासनमिति यदुक्तं तदनुवासनमाह - जीवन्तीमित्यादि । जीवन्तीं शाकविशेपम् । मेदां खनामख्यातां तदभावेऽश्वगन्धाम् । मदनमपि सव्र्व्वत्र फलमेव ग्राह्यम् । ऋद्धिं स्वनामख्यातां तदभावे बलां दद्यात् । विल्वं विल्वमूलखक् । एतानि जीवन्त्यादीनि शतावर्य्यन्तानि द्वादश द्रव्याणि स्नेहपादिकमानेन पिष्ट्रा कल्कीकृत्य पुराणं सर्पिस्तैलञ्च नवं तिलप्रभवं मिलिला प्रस्थं मन्दाग्निना पक्त्वा मुच्छेविला तत्र शीतीभूते पूर्वोक्तं कल्कं दत्त्वा क्षीरश्च तत्स्नेहसमं जलं तत्स्नेहात् त्रिगुणं दत्त्वा ऐकध्यं विपचेत् भिषक् । एतदानुवासनिकं ज्वरहरं स्नेहं दद्यात् ।। १५१ ।। अनुवासनम् । For Private and Personal Use Only चक्रपाणिः - गुरु च्यादौ साधयेद् रसमिति क्वाथं कुर्य्यात् । ईषत्सलवणमिति ईषत्क्षौद्रसर्पिषा युक्तमिति योज्यम् । जीवन्त्याद्ये अनुवासनयमके क्षीरं स्नेहसमम्, जलन्तु त्रिगुणमिति ३१४
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy