________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः ]
चिकित्सितस्थानम् ।
चतुर्गुणेनाम्भसा वा शृतं ज्वरहरं पयः । धारोष्णं वा पयः सद्यो वातपित्तज्वरं जयेत् ॥ १४५ ॥ जीर्णज्वराणां सव्र्व्वेषां पयः प्रशमनं परम् । पेयं तदुष्णं शीतं वा यथास्वैरौषधैः श्रुतम् ॥ १४६ ॥ प्रयोजयेज्ज्वरहरान् निरूहान् सानुवासनान् । पक्वाशयगते दोषे सिद्धौ यानुपदेक्ष्यते ॥ १४७ ॥ पटोलारिष्टपत्राणि सोशीरं चतुरङ्गलम् । ह्रीवेरं रोहिणी तिक्ता श्रदंष्ट्रामदनानि च ॥
For Private and Personal Use Only
२४६६
गङ्गाधरः – चतुर्गुणेनेति । केवलेन जलेन कल्कं विनापि तं पयो ज्वरहर - मिति । चतुर्गुणेनेत्यनेन सर्व्वत्र पयःपाके चतुर्गुणं जलं ज्ञापितम् । तदुक्तमन्यत्र । " द्रव्यादष्टगुणं क्षीरं क्षीरात् तोयं चतुर्गुणम् । क्षीरावशेषः कर्त्तव्यः क्षीरपाके स्वयं विधिः ॥” इति । धारोष्णं वेति । गोदोहनमात्रं यत् स्वभावत उष्णं दुग्धं तद् वातपित्तज्वरं सद्यो जयेत्, न तु कफपित्तजं कफवातजं वा । दाहतृष्णापरीतस्येत्यादिना यत् पयोविधानमुक्तं, तत्र सनागरमित्यादियोगेन तृष्णावतो दुग्धम् | कासादित्यादिना निरामज्वराणां धारोष्णं वेत्यादिना वातपित्तज्वरस्य, तः सद्धप्रच्युतदोषे शृतं पयो विहितम् ।। १४५ ॥
गङ्गाधरः - जीर्णज्वराणामित्यादि । सर्व्वेषामिति वातादिजानां सर्व्वेषामेव जीर्णज्वराणां क्षीणकफानां यथास्त्रैः स्वीयैः स्वीयैरौषधैः शृतं पक पयः परं प्रशमनम् । तच्च दुग्धमुष्णं वा शीतं वा पेयं वातकफेऽत्युष्णं वातपित्ते शीतम्, सव्वेंत्र सर्व्वं वा यथास्वोषध सिद्धत्वान्न विरुध्यते ॥ १४६ ॥
गङ्गाधरः - निरूहैर्वा मलान् हरेदिति यदुक्तं तन्निरूह योगानाह - प्रयोजये. दित्यादि । सिद्धौ सिद्धिस्थाने । तथात ऊर्द्धश्च यान् ज्वरहरान् सानुवासनान् निरूहानुपदेक्ष्यते तान् ज्वरितस्य क्षीणस्य पकाशयगते दोषे प्रयोजयेत् ।। १४७
गङ्गाधरः - के योगा अत्रोपदेक्ष्यन्ते इत्याह-- पटोलेत्यादि । पटोलारिष्टयोः प्रक्षेपो ज्ञेयः । उष्णं शीतं वेति विकल्प इच्छाविशेषकृतः । किंवा प्रबलवाते उष्णम्, पित्तेऽतिबले शीतम् ॥ १४१ – १४७ ॥
चक्रपाणिः - निरूहविधौ ज्वरहरानिति वचनेन ज्वरहरैद्र' व्यैर्निरूहानुवासनकल्पनां दर्शयति ।