________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४८
चरक-संहिता। [ ज्वरचिकित्सितम् एरण्डमूलोत्कथितं ज्वरात् सपरिकर्तिकात् । पयो विमुच्यते पीत्वा तद्वद् विवशलाटुभिः ॥ १४२॥ त्रिकण्टकबलाव्याघ्री-गुड़नागरसाधितम् । वर्धोमूत्रविबन्धन शोफज्वरहरं पयः॥ १४३॥ सनागरं समृद्वीकं सघृतक्षौद्रशर्करम् ।
शृतं पयः सखजूरं पिपासाज्वरनाशनम् ॥ १४४ ॥ पादिकेन चतुर्गणजलेन पक गव्यं पयः पीला ज्वरितः कासादित्यादितो मुच्यते ॥१४१॥ __ गङ्गाधरः-एरण्डेत्यादि। एरण्डमूलोत्कथितं पयः पीला सपरिकर्त्तिकात् गुदे कर्त्तनवत्पीडायुक्तात् ज्वराद विमुच्यते । विल्वशलाटुभिः आमविल्वानाच शुष्काणां कल्कैरुत्कथितं पयस्तद्वत् पीला सपरिकर्तिकात् ज्वरादविमुच्यते ॥१४॥ - गङ्गाधरः–त्रिकण्टकेत्यादि । त्रिकण्टकं गोक्षुरं बला पीतपुष्पा बला व्याघ्री कण्टकारीमूलं नागरं शुण्ठी एभिः कल्कैरष्टमांशैः जले चतुर्गुणे साधितं पयः पुराणगुई प्रक्षिप्य पीतं वच्चौमूत्रविबन्धन शोथज्वरहरं भवति ॥१४३॥ - गङ्गाधरः-सनागरमित्यादि। नागरमृद्वीकाखज्जू रः कल्कीकृतः शृतं चतुर्गुणे तोये पक्क' पयः शीतीभूतं घृतक्षौद्रशकरायुक्तं पिपासावरनाशनम् ॥१४४॥ क्षीरं क्षीरात् तोयं चतुर्गुणम् । क्षीरावशेषः कर्त्तव्यः क्षीरपाके त्वयं विधिः ॥” इति। एतच्च द्रव्यापले क्षीरपलचतुष्टयं पानीयपलानि षोड़श दत्त्वा क्षीरावशेषः पाकः कर्त्तव्यः। एवम्प्रकारा मानव्यवस्था। ननु यन्त्र माषपर्णभृतीये-“मेदां पयस्यां जोवन्ती विदारी कण्टकारिकाम्। माषान् श्वद्रष्टां क्षीरिकां गोधूमान् शालिषष्टिकान्। पयस्योदके पक्त्वा कार्षिकानाकोन्मिते। विवर्जयेत् पयःशेषम्" इत्यादिना क्षीरव्यादिमानमुक्तम्, तत् तवैव विषये ज्ञेयम्, तन्मान्तरपरिभाषागृहीतत्वादस्य मानस्य। प्रदेशान्तरयोगोक्तं हि मानं तदेव प्रदेशान्तरेऽपि मानलिङ्ग भवति, यत् परिभाषानुगतं भवति, यत् तु परिभाषाबाधितम्, तत् स्वविषये एवावतिष्ठते। यथा “शुद्धशुष्करसोनस्य चतुःपलं क्षीरोदकेऽष्टगुणे पचेत् क्षीरशेषञ्च पाययेत्' इति, एवमन्यदपि तन्तान्तरपरिभाषाविरुद्धमानकथनं तवैव प्रयोगे व्यवस्थितं ज्ञेयम्। परिकर्तिका कर्सनाकारा गुदादिवेदना। सनागरमित्यादौ क्षीरक्षौद्रस्य पाकानईत्वेनोत्तरकालं द्रष्यान्तरतुल्यमानस्मैव
For Private and Personal Use Only