________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
चिकित्सितस्थानम् ।
२४६७ लिह्याद वा वृतं चूर्ण संयुक्तं चौद्रसर्पिषा। पिबेद वा क्षौद्रमावाप्य सघृतं त्रिफलारसम् ॥
आरग्वधं वा पयसा मृद्वीकानां रसेन वा। त्रिफलां त्रायमाणां वा पयसा ज्वरितः पिबेत् ॥ ज्वराद विमुच्यते पीत्वा मृद्वीकाभिः सहाभयाम् । पयोऽनुपानमुष्णं वा पीत्वा द्राक्षारसं नरः॥ १४० ॥ कासाच्छासाच्छिरःशूलात् पार्श्वशूलाच्चिरज्वरात् ।
मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः ॥ १४१ ॥ आमलकानां रसं वा मदनफलकल्कयुक्तं धृतभृष्ट ज्वरापहं प्रच्छईनं पिबेत् । योगद्वयमिति ॥१३९॥
गङ्गाधरः-ऊद्धतः शोधनयोगानुक्त्वाधः शोधनानाह-लिह्याद वेत्यादि। क्षौद्रसपियों त्रिवृताचणेलेह एकयोगः। त्रिफलारसं सघृतं क्षौद्रमावाप्य प्रक्षिप्य पिबेदेति द्वितीयः। आरग्वधं सम्पाकस्य फलमध्यनिर्यासं पयसा उष्णेन पिबेदित्येकः। मृद्वीकानां रसेन काथेनारग्वधफलमध्यं वा पिवेदिति द्वितीयः। त्रिफलां चर्णीकृतां पयसा पिबेत्। त्रिवृतामिति पाठे त्रिवृतां चर्णीकृतां कल्कीकृतां पयसा पिबेदिति तृतीयः। त्रायमाणां वा चूर्णीकृतां पयसा पिबेदिति चतुर्थः। ज्वरित इति सर्वत्रान्वेतव्यम्। ज्वरक्षीणस्य कामन्तु पयसा तु मलान् हरेदिति यदुक्तं तत् पयोविरेचनमाह--ज्वरादित्यादि। मृद्वीकाभिः सहाभयां निकाथ्य पयोऽनुपानं पीसा ज्वरी ज्वरात् मुच्यते। द्राक्षारसं द्राक्षाकाथमुष्णं पयोऽनुपानम् उष्णगव्यदुग्धानुपानं पीता नरो ज्वरान्मुच्यते। उष्णं द्राक्षाकाथं पीला गव्यदुग्धमप्युष्णमेवानुपिबेदिति भावः ॥१४०॥ - गङ्गाधरः-कासादित्यादि । पञ्चमूलीकृतं विल्वादिपञ्चानां मूलानां कल्केन मधुकयुक्तं दाहप्राये। क्षौद्रयोगान्मधुरीकृतमम्बु क्षौद्राम्बु। लवणयोगालवणीकृतमम्बु लवणाम्बु । प्रस्कन्दनं विरेचनम् । आस्वाद्य त्युपयोज्य । किंवा आसाद्य ति पाठः ॥ १३७-१४०॥
चक्रपाणिः-क्रमागतक्षीरप्रयोगानाह-कासादित्यादि। अत्र पञ्चमूल्यादिद्रव्यस्य तथा क्षीरस्य पानीयस्य च मानानुक्तौ वृद्धव्यवहारसिद्धया परिभाषया मानकल्पनम् । पडतम्-“द्रव्यादष्टगुणं
For Private and Personal Use Only