________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६६
चरक संहिता ।
[ ज्वरचिकित्सितम्
ज्वरिभ्यो बहुदोषेभ्य ऊर्द्ध श्चाधश्च बुद्धिमान् । दद्यात् संशोधनं काले कल्पे यदुपदेच्यते ॥ १३७॥ मदनं पिप्पलीभिर्वा कलिङ्गैर्मधुकेन वा । युक्तमुष्णाम्बुना पेयं वमनं ज्वरशान्तये ॥ चौद्राम्बुणा रसेनेोरथवा लवणाम्बुना । ज्वरे प्रच्छर्द्दनं शस्तं मद्य व तर्पणेन वा ॥ १३८ ॥ मृद्वीकामलकानां वा रसं प्रच्छर्दनं पिबेत् । रसमामलकानां वा घृतभृष्टं ज्वरापहम् ॥ १३६ ॥ ज्वरहरं वमनम् ।
गङ्गाधरः- ननु क्रियाभिराभिः प्रशमं न प्रयाति यदा ज्वरः । अक्षीणबलमांसस्य शमयेत् तं विरेचनैः” इति यदुक्तं तद्विरेचनं कैर्योगः कार्य्यमित्यत आह - ज्वरिभ्य इत्यादि । बहुदोषेभ्यो न खल्पदोषेभ्यः । अल्पदोषेभ्यस्तु मृदुसंशोधनं दद्यात् । कल्पे कल्पस्थाने ।। १३७ ।।
गङ्गाधरः - अत्रापि संशोधनार्थं ज्वरहितान् वमनविरेचनास्थापनादीन् योगानाह - मदनमित्यादि । मदनं मदनफलं पिप्पलीभिः सह कल्कीकृत्य उष्णाम्बुना मात्रया पेयम् । अथवा कलिङ्गैरिन्द्रयवैः सह मदनफलं कल्कीकृत्य मात्रयोष्णाम्बुना पेयम् । अथवा मधुकेन यष्टिमधुना सह मदनफलं कल्कीकृत्य मात्र योष्णाम्बुना पेयमिति त्रयो वमनयोगाः । क्षौद्रेत्यादि । क्षौद्रमिश्रेणोष्णाम्बुना, मदनमिति सव्वत्राधिकारः । अथवा इक्षोः रसेन मदनमिति द्वितीयो योगः । अथवा लवणाम्बुना सैन्धवलवणमिश्रेणाम्बुना मदनमिति तृतीयः । मदैर्वा मदनमिति चतुर्थः । तर्पणेन वा तद्दोषहरद्रव्यकाथेनालोडितलाजसक्तुना मदनं मच्छर्द्दनं ज्वरे शस्तमिति सर्व्वत्रान्वेतव्यमिति पञ्चमो योगः ॥ १३८ ॥
गङ्गाधरः - मृद्वीकामलकानां रसं काथं मदनयुक्तं ज्वरापदं मच्छद्दनं पिबेत् । चक्रपाणिः - सम्प्रति क्रमसूचितवमनविरेचनयोगानाह - ज्वरिभ्य इत्यादिना । बहुदोषेभ्यः' इत्यनेन अल्पदोषेषु संशोधनं निषिद्धमिति स्फारयति । काल इति यथोक्तवमनविरेचनयोग्यज्वरावस्थायाम् । कल्प इति कल्पस्थाने । मदनं पिप्पलीयुक्तं कफे, कलिङ्गयुक्तं पित्तश्ले ष्मणि, * प्रस्कन्दनमिति वा पाठः ।
For Private and Personal Use Only