________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
चिकित्सितस्थानम् । २४६५ पिप्पलीमुस्तमृद्वीका-चन्दनोत्पलनागरैः। कल्कीभूतैश्च विपचेद घृतं जीर्णज्वरापहम् ॥ १३५ ॥
वासाद्य घृतम् । बलां श्वदंष्ट्रां वृहती कलसी धावनी स्थिराम् । निम्बञ्च पर्पटं मुस्तं त्रायमाणां दुरालभाम् ॥ कृत्वा कषायं पेष्यार्थे दद्यात् तामलकी शटीम् । द्राक्षां पुष्करमूलञ्च मेदामामलकानि च ॥ घृतं पयश्च तत् सिद्धं सर्पि+रहरं परम्। तृष्णाकासशिरःशूल-पावशूलांसतापनुत् ॥ १३६ ॥
बलाद्य घृतम् । यत् तन्न। पिप्पलीत्यादिभिः षड़ाभिः कल्कीभूतैः स्नेहपादिक घृतं वासादीनां काथैबिगुणैः पयसा च द्विगुणन पचेत् ॥१३५॥
गङ्गाधरः-बलामित्यादि। कलसी शालपणी, धावनी पृश्निपर्णी, स्थिरामपि शालपर्णीविशेषं शालपर्ध्या भागद्वयं वा । बलादीनि एकादश द्रव्याणि अष्टगुणे जले पक्त्वा पादावशिष्टं कषायं घृतात् त्रिगुणं कृखा दद्यात् पयश्च घृतसमं दद्यात् । पेष्यार्थे कल्कार्थे तामलक्यादीनि घृतपादिकानि दद्यात् । तत्र घृते सव्वमिदं दत्त्वा पचेत् । कर्षादौ तु पलं यावद् दद्यात् षोड़शिकं जलम् । ततस्तु कुड़वं यावत् तोयमष्टगुणं. भवेत् । चतुर्गणमतचोद्ध प्रस्थादिश्रुतिमानतः। चतुर्गणन्वष्टगुणं द्रवद्वैगुण्यतो भवेदिति वचनात् ॥१३६॥ स्यात्, तस्मात् कर्त्तव्यं क्षीरद्वैगुण्यवचनम्। अन्ये तु-द्वाभ्यामपि चातुर्गुण्यम्' इति परिभाषया प्रत्येकमेव द्रवेण चातुर्गुण्यमिच्छन्ति। ततश्चेह कषायस्य चातुर्गुण्यम्, क्षीरस्य तु द्वैगुण्यं भवति । तन्न, एकेनापि चातुर्गुष्य द्वाभ्यामपि चातुर्गुण्य त्रिभिरपि चातुर्गुष्य चतुर्भिः सममिति वचनेन चतुर्भिः स्नेहसमताभिधानेन स्नेहाच्चातुर्गुण्यमेव द्रवस्योक्तम् । अतो द्वाभ्यां त्रिभिरपि तथा चातुर्गुण्यं कर्त्तव्यम् यथा स्नेहाचतुर्गुणं स्यात्, तथाच मिलित्वैव चातुर्गुण्यं भवति, न प्रत्येकम् । चतुर्गुणद्वपरिभाषा तु पञ्चप्रभृतिद्रवसान्निध्ये विशेषवचनाद बाध्यते । वचनं हि-“पञ्चप्रभृति यत्र स्युः द्रवाणि स्नेहसंविधौ। तत्र स्नेहसमान्याहुरोक् च स्यात् चतुगुणम् ॥” इति। बलायेऽपि घृते क्वाथपयसोः पूर्योक्तक्वाथक्षीरसाहचर्य्यात् प्रत्येकं द्विगुणत्वं ज्ञयम् ॥ १३५। १३६॥
For Private and Personal Use Only