________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४६०
चरक संहिता |
कषायाश्च यवाग्वश्च पिपासाज्वरनाशनाः । निर्दिष्टा भेषजाध्याये भिषक् तानपि योजयेत् ॥ १३० ॥ ज्वराः कषायैर्वमनैर्लङ्घनैर्लघुभोजनैः ।
रुक्षस्य ये न शाम्यन्ति सर्पिस्तेषां भिषग्जितम् ॥ १३१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
{ ज्वरचिकित्सितम्
गङ्गाधरः - अतिदिशति - कषाया इत्यादि । भेषजाध्याये भेषजचतुष्के षड्विरेचनशताश्रितीये पञ्चाशन्महाकषायेषु ये दश दशावयवाः पिपासानाशनाः तृष्णा निग्रहणा नागरधन्वयवासक मुस्तपपेंटकचन्दन किराततिक्तकगुड़ चीह्रीवेरधान्यकपटोलानीति दशेमानि तृष्णानिग्रहाणीति व्याख्याताः । ज्वरनाशनाश्च ये दशावयवाः सारिवाशकरापाठामञ्जिष्ठाद्राक्षापीलुपरूषका भयामलकविभीतकानीति दशेमानि ज्वरहराणीति व्याख्यातास्ते कषायाः । तथापामार्गतण्डलीयेऽध्याये - मृद्रीकाशारिबालाज-पिप्पलीमधुनागरः । पिपासानी विषघ्नी च यवागूरूपसाधिता । इति या चोक्ता ; या च गव्यमांसरसः साम्ला विषमज्वरनाशिनीत्यनेन यवागूरुक्ता ता अपि भिषग् योजयेदित्यर्थः ॥ १३० ॥
गङ्गाधरः - एवं चिकित्सया ज्वरस्यानिवृत्तौ दशाहानन्तरं मन्दकफे सर्पिःपानं यदुक्तं तदाह – ज्वरा इत्यादि । उक्तैलेङ्घनैर्वमनैः सामे निरामे च कषायेर्लघुभोजनैः रुक्षस्य ये ज्वरा न शाम्यन्ति तेषां ज्वराणां सपिवेक्ष्यमाणं ज्वरहरमन्यच्च सर्पिर्भिषग्जितं भेषजं न त्वरुक्षस्य । एतैर्न यावद्रौक्ष्यं स्यात् तावत् कषायोपयोगः काय्यः, रुक्षे सर्पिःप्रयोग इति ज्ञापितम् ॥ १३१ ॥
For Private and Personal Use Only
-
कषायप्रकरणागतत्वात् सन्निपातचिकित्सावसरमप्युल्लङ्घय सन्निपातहरौ शट्यादिकवृहत्यादिकप्रयोगौ पठन्ति ॥ १२३ - १२९॥
चक्रपाणिः - भेषजाध्याय इति भेषजचतुष्केऽपि हि अधीयन्तेऽस्मिन्नर्था इति कृत्वा 'अध्याय'शब्दो वर्त्तत एव योगमात्रेण, तल षड् विरेचनशताश्रितीये ज्वरघ्नतृष्णाघ्नौ महाकषायावुक्तौ तयोश्च प्रत्येकद्रव्यकृताः कषाया बहवो भवन्तीति कषाया इति बहुवचनं साधु । यवाग्वश्चापामार्गतण्डुलीये प्रोक्ताः ॥ १३० ॥
चक्रपाणिः - सर्पिः प्रयोगानभिधातुं सर्पिषो विषयमाह - ज्वरा इत्यादि । मनैरित्यनेनेह अवस्थाविधेयवमनप्रयोगान् सर्पिः षड़हपूर्व्वभाविनो दर्शयति । 'लङ्घनैः' इति वचनेनैव लङ्घनसमानफलाः स्वेदादयो गृह्यन्ते । रुक्षस्येतिवचनेन कषायादिप्रयोगे सत्यपि सामतानुबन्धात् कफोत्तरतया वा यत्र रुक्षत्वं न भवति तत्र सर्पिर्न दातव्यमिति दर्शयति । अव कषायैरिति असमास निर्देशेन व्यस्तैः समस्तैरपि कषायादिप्रयोगः रुक्षस्य सर्पिःपानं कर्त्तव्यमिति दर्शयति ॥ १३१