________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः !
चिकित्सितस्थानम् ।
त्रिफलां त्रायमाणाञ्च मृद्रीकां कटुरोहिणीम् । पित्तश्लेष्महरस्त्वेष कषायोऽत्यानुलोमिकः । त्रिवृताशर्करायुक्तः पित्तश्लेष्मज्वरापहः ॥ १२७ ॥ शटी पुष्करमूलञ्च व्याघ्री शृङ्गी दुरालभा । गुडूची नागरं पाठा किरातं कटुरोहिणी ॥ एष शटादिको वर्गः सन्निपातज्वरापहः । कासहृदग्रहपार्श्वार्त्ति श्वासतन्द्रासु शस्यते ॥ १२८ ॥ सन्निपातज्वरे काथः ।
२४८
वृहत्यो पौष्करं भार्गी शटी शृङ्गी दुरालभा । वत्सकस्य च वीजानि पटोल कटुरोहिणी ॥ वृहत्यादिर्गणः प्रोक्तः सन्निपातज्वरापहः । कासादिषु च सर्वेषु दद्यात् सोपद्रवेषु च ॥ १२६ ॥
सन्निपातज्वरे क्वाथः ।
अथवा जाती जातीफलम्, मुस्तञ्च धन्वयवासकं दुरालभा; एषां कषायं कार्थं सगुड़े प्रक्षेपविधिना पुराणगुड़युक्त तद्वत् सन्निपातज्वरापदं विवद्धदोषो ज्वरितः पिबेत् । दोषत्र सनशमन एष योगः ।। १२६ ॥
For Private and Personal Use Only
गङ्गाधरः - त्रिफलामित्यादि । त्रिफलादीनां षण्णां द्रव्याणां काथः पित्तश्लेष्महरः प्रकरणात् पित्तश्लेष्मज्वरसंशमनः । तु पुनरेष कषायः काथत्रिवृताशर्करायुक्तः त्रिवृताशर्करे यद्यत्र प्रक्षिपेत् तदात्यानुलोमिकः पित्तश्लेष्मज्वरहरश्चेत्यर्थः । एवं सति एतद् योगद्वयम् ॥ १२७ ॥
I
गङ्गाधरः – शटीत्यादि । वर्ग इत्यनेन यथालाभमेव काथादिरूप एव प्रकरणात् ।। १२८ ।। सन्निपातज्वरे काथः । गङ्गाधरः - छहत्यावित्यादि बृहतीद्वयम्, पौष्करं पुष्करमूलं तदभावे कुष्ठम् । गण इत्यनेन यथालाभमेषां काथः संशमनः ।। १२९ ।।
सन्निपातज्वरे काथः ।
पिबेदेत्यस गुड़स्य प्रपत्वेन काथ्यद्रव्यापेक्षया पादिकत्वम् । एवमन्यखापि प्रक्षेपे बोद्धव्यम् । अस