________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४८८
चरक-संहिता। [ ज्वरचिकित्सितम् गुड़ च्यामलकं मुस्तम:श्लोकसमापनाः। कषायाः शमयन्त्याशु पञ्च पञ्चविधान् ज्वरान् । सन्ततसततान्येदुरस्तृतीयकचतुर्थकान् ॥ १२३ ॥
विषमज्वरेषु काथाः। मधूकमुस्तमृद्वीका-काश्मर्याणि परूषकम् । त्रायमाणामुषीराणि त्रिफलां कटुरोहिणीम् । पीत्वा निशि स्थितं जन्तुरीराच्छीघ्र विमुच्यते ॥ १२४ ॥
विषमज्वरे हिमः। वृहत्यौ वत्सकं मुस्तं देवदारु महौषधम् । कोलवल्ली च योगोऽयं सन्निपातज्वरापहः ॥ १२५ ॥
सन्निपातज्वरे काथः। जात्यामलकमुस्तानि तद्वद् धन्वयवासकम् ।
विबद्धदोषो ज्वरितः कषायं सगुड़ पिबेत् ॥ १२६ ॥ गुड़च्यामलमुस्तैश्चतुर्थकज्वरम्। एष योगो यद्यप्यर्द्धश्लोकेन नोक्तस्तथापि पूर्वेषां चतुर्णां योगानामद्धेश्लोकसमापनत्वेन झापनार्थमर्द्धश्लोकसमापना इत्युक्तम् । कषाया इति काथरूपाः । अन्ये काथा हिमाश्चेत्याहुस्तन्नानन्तरं हि पाक्यं शीतकषायं वेत्युक्तेः॥१२३॥
गङ्गाधरः-मधकेत्यादि। मकं गुड़पुष्पस्य वृक्षस्य सारम् । मृद्वीका द्राक्षा काश्मयं गम्भारीफलं परूषकं परूषफलं त्रिफलां पथ्याक्षधात्रा इति त्रयीम्। निशि स्थितमिति शीतकषायं ज्वरादिति प्रकरणात् सर्वमाद्विषमज्वरात् मुच्यते इत्यनेन शमनसमस्योक्तं भवति ॥१२४॥
गङ्गाधरः-वृहत्यावित्यादि। वे वृहत्यौ वृहतीकण्टकाय्यौ वत्सकं कुटजवीजम् । कोलवल्ली गजपिप्पली। एष योगः काथरूपः सन्निपातज्वरसंशमनः॥१२५॥
गङ्गाधरः-जात्येत्यादि। जाती वृहदामलकम्, आमलकं क्षुद्रामलकम्,
चक्रपाणिः-पञ्च पञ्चविधं ज्वरमिति यथासंख्यं सन्ततादिषु कलिङ्गादयो ज्ञेयाः ; अन्ये तु पञ्चसु पन्चैव यौगिकानाहुः । निशिस्थितमिति शीतकपारम् । जातीत्यादौ जाती जाहिपल्लवः । सगुई
For Private and Personal Use Only