SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रय अध्यायः] चिकित्सितस्थानम्। २४८७ वत्सकारग्वधौ पाठां षड़ ग्रन्थां कटरोहिणीम्। मूळमतिविषां निम्बं पटोलं धन्वयासकम् ॥ वचामुस्तमुशीराणि मधुकं त्रिफलां बलाम् । पाक्यं शीतकषायं वा पिबेज्ज्वरहरं नरः॥ १२२ ॥ - वत्सकादिः काथो हिमश्च । कलिगकाः पटोलस्य पत्रं कटुकरोहिणी। पटोलं शारिवा मुस्तं पाठा कटुकरोहिणी॥ निम्बः पटोलं त्रिफला मृद्वीका मुस्तवत्सको। किराततिक्तममृता चन्दनं विश्वभेषजम् ॥ गङ्गाधरः-वत्सकेत्यादिभ्यां द्वाभ्यामेको योगः पाक्यरूपेण शीतकषायेण वा। अत्र पडू ग्रन्थां श्वेतवां वचां पीतवचां मधुकं यष्टीमधु । एष काथो हिमश्च प्रकरणात् सर्वज्वरसंशमनः ॥ १२२ ॥ गङ्गाधरः-सर्वज्वराणां काथान् हिमांश्च कषायानामानां निरामाणाञ्चोक्त्वा विषमाणां ज्वराणां कपायानाह-कलिङ्गका इत्यादि। अर्द्धश्लोकेनकैककाथकषायः सततादिज्वरेषु क्रमेण देयः। कलिङ्गकादिभिस्त्रिभिद्रव्यः कृतः काथः सन्ततज्वरं शमयति पटोलादिभिः पञ्चभिव्यैः सततज्वरम्, निम्बादिभिरष्टभिद्रव्यैरन्येदुरष्कज्वरम्, किराततिक्तादिभिश्चतुर्भिद्रव्यस्तृतीयकज्वरम्,। तु" इति ; तथा सुश्रुतेऽपि स्नेहकुड़वे कल्कपलमुक्तम् ; तदेतदल्पकल्कसाध्यत्वं स्नेहस्य स्वरसेनाष्टगुणसाध्ये स्नेहे व्यवस्थापनीयम् ; द्रव्यस्य हि ससारत्वनिःसारत्वाभ्यां फरकस्य अल्पत्वभूयस्त्वे दृष्टे ; यदुक्तं शौनकवचनमनुवदता वाग्भटेन-"स्नेहे सिध्यति शुद्धाम्बुनिकाथस्वरसैः क्रमात् । कल्कस्य योजयेदंशं चतुर्थ षष्टमष्टमम्" इति (तथा “शणस्य कोविदारस्य कर्बुदारस्य शाल्मले। कल्काढ्यत्वात् पुष्पकल्क प्रशंसन्ति चतुःपलम्" इति ; भन स्नेहप्रस्थापेक्षया चतुःपलं कल्कं स्नेहादष्टमभाग एव भवतीत्यादि विशेषवचनेन “कल्लाश्च स्नेहपादिकः" इति सामान्यवचनस्य बाधा क्वचिद्विषयविशेषे भवतीह न विरोधमावहतीति ;) भवतु, अलमतिप्रपन्चेन, सर्वथा व्यवहारानुगतमेव सर्व प्रमाणीकर्त्तव्यम् ॥ १२१ ॥ चक्रपाणिः-वत्सकारग्वधमित्यादि बलामित्यन्तेन केचिद् योगलयं केचिदेकमेव योगं वदन्ति ॥ १२२॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy