________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४८६
. चरक-संहिता। [ ज्वरचिकित्सितम् द्वात्रिंशत्पलप्रस्थकीर्तनम्, तत् पूर्वपरिभाषाऽव्यभिचारे सति क्वचिद् द्वैगुण्यं वा व्यर्थम् ; तेन रक्तिकादी तत्परिभाषार्थव्यभिचारस्तन्वान्तरप्रमाणादुन्नीयते; तथाचाले यः-"द्विगुणं कुड़वादौ न शुष्के मानं द्रवस्य तु । आद्रस्य चाल्पवीर्य्यत्वाज्ञयमन्यत तत् समम्' इति ; तथा जतूकर्णेऽप्युक्तम्-"आर्द्राणाञ्च द्रवाणाञ्च द्विगुणाः कुड़वादयः” इति, अन्यताप्युक्तम्- “रक्तिकादिषु मामेषु यावन कुड़वो भवेत्। शुष्के वायोश्चैव तुल्यं मानं प्रकीर्तितम् ॥” इति । एवञ्च कुडवादिमानयोग्यस्यापि यत्र द्रव्यस्य पलोल्लेखमानं गृह्यते, तत्रापि न द्वैगुण्यम् । तेन "रास्नासहस्रमियूं हे तैलद्रोणं विपाधयेत्" इत्यादिषु पलोल्ले खेन जलं गृह्यमाणं न द्विगुणं भवति ; कचित् पलोल्लेखमानविधानेऽपि तन्त्रात्तरदर्शनात् कुड़वादिविवक्षां कृत्वा पलोल्लेखागतेऽपि द्वैगुण्यं भवति ; यथा क्षतक्षीणचिकित्सिते "मधुकाष्टपलं द्राक्षाप्रस्थक्वाथः" इत्यादिना यः प्रयोग उक्तः, स जतूकणे "द्राक्षाया मधुकस्याईप्रस्थक्वाथः” इत्यादिना ग्रन्थेन पठितः ; तेन जतूकर्णे मधुकस्याईप्रस्थोल्लेखपाठात् कृतद्विगुणमेव जलं देयम् ; अन्ये तु, 'कुड़वादाविति अतद्न णसं विज्ञानबहुव्रीहिणा कुड़वे न द्वैगुण्यमस्ति' इति अवते ; ततश्च सुश्रुते, “स्नेहकुड़वे साध्ये भेषजपलकल्कमिष्टम्" इत्युक्तम् , तत् कुड़वे स्नेहचतुःपले भेषजपलं भवतीति कृत्वा स्नेहप्रस्थेऽष्टपलकल्कदामव्यवहार उपपन्नः ; यदि तु कुड़वेनाष्टौ पलानि स्नेहस्य गृह्यन्ते, तदा प्रस्थे चतुःपलकल्कदानच व्यवहारसिद्ध स्यात्, एतन्नातिसाधीयः ; यतस्तत्रैव स्नेहकुड़वे साध्ये काथ्यद्रव्यप्रस्थो विधेय इत्युक्तम् , तत्र यदि कुड़वेन स्नेहपलचतुष्टयं गृह्यते, तदा चतुःपले स्नेहे षोडशपलकाथ्यग्रहणं स्यात्, न च तथा व्यवहरति, क्वाथ्यषोड़शपलं हि अष्टपले स्नेह एव गृह्यते ; तस्मात् असाधकमेतत् कुड़वाद्वैगुण्यस्येति द्वैगुण्यं कुड़वे युक्तम् ; यथागस्त्यहरीतक्यां मधुनः कुड़वं यत् इहोक्तम्, तत् तन्त्रान्तरे “मधुनश्च पलाष्टकम्” इति पक्ष्यते ; तथा तन्त्रान्तरे-“खायमाणा चतुःपलं दशकेऽम्भसि शोषिते। कुड़वे कुड़वान् सर्पिक्षीरधातीरसान् पचेत्" इति श्रूयते ; तस यदि चतुःपलः कुड़वः स्यात् , तदा चरकोक्तवायमाणाघृतेन सह विरोधः स्यात्, उक्तं हि--"जले दशगुणे साध्यं लायमाणाचतुःपलम्' इत्यादि, यावत् “रसस्यामलकानाञ्च क्षीरस्य च घृतस्य च। फ्लानि पृथगौ च दत्वा सम्यगविपाचयेत्' इति ; अन्यताप्युक्तम्- "आद्रव्यद्रवद्रव्यपलैरष्टाभिरेव च। शुष्कद्रव्यचतुष्केण कुड़वः समुदाहृतः ॥” इति ; तस्मात् कुड़वद्वैगुण्यं साधु ; आद्वैगुण्ये नु, येषां द्रव्याणां शुकाणामुपयोग उक्तः, तेषामा प्रयोगे द्वैगुण्यं भवति ; ये तु नित्यमार्दा एवोपयुज्यन्ते, न तेषां द्वैगुण्यम्, यदुक्तम्-'वासाकुटजकुष्माण्ड-शतपुली सहामृता। प्रसारण्यश्वगन्धा च शतपुष्पा सहाचरा। नित्यमा प्रयोक्तव्या न तेषां द्विगुणं भवेत् ॥” इति ; एतत् सर्व पेयक्वाथप्रसङ्ग नोक्तं स्नेहपाकेऽपि चिन्तनीयम् । स्नेहपाके तु स्नेहात् पादैकः कल्को देयः ; तथाहि वक्ष्यति, तन्त्रान्तरे च “जलस्नेहौषधानान्तु प्रमाणं यत नेरितम्। तख स्यादौषधात् स्रहः स्नेहात् तोयं चतुर्गुणम् ॥” इति ; चतुर्गुण एव स्नेहो द्रवत्वेऽपि न द्वैगुण्यात् कल्कात् अष्टगुणो भवति ; अन्यत्राप्युक्तम्-"क्वाथ्याच्चतुर्गुणं वारि पादस्थं स्याच्चतुर्गुणम् । स्नेहात् स्नेहसमं क्षीरं कल्कस्तु स्नेहपादिकः ॥” इति ; यत् तु अष्टपल एव स्नेहे कल्कस्य पलमानत्वम्, तदागमसिद्धमपि न व्यवह्रियते, उक्तं हि कृष्णावेये--"स्नेहस्य कुड़वं तस पचेत् कल्कपलेन
For Private and Personal Use Only