SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः] चिकित्सितस्थानम्। २४८५ आमदोषाणां पाचनास्तेन तरुणे ज्वरे निरामे च प्रयोक्तव्या इति। काथा हिमाश्च ॥१२१॥ चतुर्भागावशिष्टं काथयित्वावतारयेत्" इत्यादिपाठभेदाच्चतुर्गुणाष्टगुणषोदशगुणजलदायिकाः भूयन्ते, ताः कठिनादिद्रव्यभेदाद बोद्धव्याः ; यदुक्तम्- "मृदौ चतुर्गुणं दयं कठिनेऽष्टगुणं तथा। कठिनात् कठिनतरे देयं पोशिकं जलम् ॥” एवं तन्त्रान्तरपरिभाषायाञ्च व्यवस्था कर्त्तव्या; अग्निवेशे हि श्रूयते-"द्रव्यमापोथितं काथ्यं दत्त्वा षोडशिकं जलम्। पादशेषञ्च कर्त्तव्यमेष कायविधिः स्मृतः। चतुर्गुणेनाम्भसा वा द्वितीयः समुदाहृतः" इति, मध्यविधयाष्टगुणत्वम् भपि पानीयस्य लभ्यते, तेनाप्युक्तम् -- "द्रव्याणां मध्यपाकार्थ यत माता न दर्शिता। पादांशात् भौषधात् तत्र जलं दद्याच्चतुर्गुणम् । चतुर्भागावशिष्टच कषायं कारयेद भिषक्" इति ; एवमन्या अपि तन्सान्तरपरिभाषाऽविरोधता ज्ञेया ; अवैव यदेतद् रोगभिषजितीये कषायकरणमुद्दिष्टम्, तनिरूदाधिकारे तद्विशिष्टार्थविषयमेव ; तथाविधकषायकरणं नान्यत, यथा बलातैले–“बलाशतं गुडूच्याश्च पादं रास्नाष्टभागिकम् । जलाढकशते पक्त्वा" इत्यायक्तं मानं न काथान्तरे याति, किन्तु तवैव नियतम् ; मैवम्, विषयविशेषविहितोऽपि विधिविषयान्तरेऽपि वृद्धवैद्यव्यवहारानुमत्या तथा तन्वान्तरपरिभाषासंवादेन च विषयतन्त्र दृष्ट्वा समानत्वेनैव व्यवस्थाप्यते, यथा इक्ष्वाकुकल्ये उक्तम्-“यावत् स्यात् तन्तुमत तोये पतितन्तु न शीर्यते” इत्यादि स्नेहपाफलक्षणं विषयविशेषोक्तं विषयान्तरेऽपि साधारणं भवति ; अब पेयक्वाथमाखापि तु तया नोक्ता, तस्याः पुरुषाद्यपेक्षया नानात्वात्, सामान्येन च यदुक्त-"दोषप्रमाणानुरूपो हि भैषज्यप्रमाणविकल्पे बलप्रमाणविशेषापेक्षो भवति" इति । एतेन यावन्मातमौधधं बलाग्न्याद्यपेक्षयोपपद्यते यस्य पुरुषस्य, किं न भवति तावन्मात्रमौषधं तस्य देयमित्युक्तं स्यात् ; उक्तञ्चान्यत "मात्रायाः नास्यवस्थानं दोषमग्निं बलं वयः। व्याधि द्रव्यञ्च कोष्ठञ्च वीक्ष्य मात्रां प्रयोजयेत् ॥” इति ; तसाह-यावती मध्यपुरुषाभिप्रायेण मावा भवति, सा स्वतन्त्रे पूर्व सूचितैव ;-“पलं कसेरुबीजस्य श्रपयित्वा रसं पिबेत्" इत्यादिना, तथा पटोलादेवऽपि “पलमेषां सह चूर्णितानां कल्केन तहोषहरं पिबेत्" इत्यादिना ; सुश्रुतेऽप्युक्तम्-"च्याध्यादिषु तु साध्येषु क्वाथस्याञ्जलिरिष्यते" इति रसे का षोड़शपलस्य पादशेषितायाञ्च चतुःपलरूपोऽअलिरेव भवति ; दारुकोऽप्याह"जघन्या द्विपला प्रोक्ता माता मध्या चतुःपला। उत्तमा षट्पला प्रोक्ता क्वाथस्नेहौषधेषु च ॥" इति । ननु अन्यत्रोक्तम्-“उत्तमस्य पलं माता विभिश्चा:श्च मध्यमा। जघन्यस्य पलार्द्धन स्नेहक्काथोषधेषु च" इति । एताश्च दूरान्तरार्था बलाग्न्यादिमाने व्यवहियमाणैव परिभाषा। अन्यचिन्त्यते-यदेतचतुर्गुणत्वादिना जलमुक्तम्, तत् किं कृतद्वैगुण्यं सर्वत्र प्रहीतव्यम्, उक्तं हि-"शुष्कद्रव्येष्विदं मानं द्विगुणन्तु द्रवायोः" इति ? मैवम्, सुनिषण्णकादेतद्रव्यस्य द्वात्रिंशपलपरिमाणे द्रवप्रस्थे सिळेऽपि यदयम् -"त्रिंशत् पलानि तु प्रस्थो विज्ञेयो द्विपलाधिक" इति जतूकणे ; तेन तन्त्रान्तरे परिभाषानुमतं कुड़वादावेव माने द्वैगुण्यं भवति ; कृते च पूर्वमाने तु द्रवार्द्राणां द्वैगुण्यं नास्तीति दर्शयति ; येन, पूर्वपरिभाषयैव द्वैगुण्ये लब्धे यत् पुनः ३१२ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy