________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता।
२४८४
[ ज्वरचिकित्सितम् किराततिक्तकं मुस्तं गुडूची विश्वभेषजम् । पाठामुशीरं सोदीच्यं पिबेद वा ज्वरशान्तये ॥ ज्वरना दीपनाश्चैते कषाया दोषपाचनाः। तृष्णाऽरुचिप्रशमना मुखवरस्यनाशनाः ।। १२१ ॥
काथा हिमाश्च। शीतकषायं वेत्यधिकारः कफवातानुबन्धे पित्ताधिकेऽयं योगः। सनागर मित्यादिनापरो योगः सन्चेष्वेव ज्वरेषु पाक्यं शीतकषायं वा। किरातेत्यादिना तृतीयो योगः श्लोकेनैकेन सर्वेष्वेव ज्वरेषु पाक्यं शीतकषायं वा। एषामाशिष्टमाह-ज्वरना इत्यादि । ज्वरना इति ज्वरसंशमनाः। दोषपाचना इति कषायः स्वल्पवीर्य्यतया शत्यगुणयोगाचाल्पदोषे दाहाभिमूते च देयः। पर्पटकं सदुरालभ वेति तृतीयो योगो मन्दाग्निपित्तकफे। किराततिक्तादिश्चुतर्थो वातकफे। पाठादिश्च पित्ते । किराततिक्तादिनैव मेलके सति पाठासप्तकं जतूकर्णप्रत्ययात् कफपित्ते तदिति ; उक्त हि तस-भूनिम्बधनगूडूचीशुण्ठ्यु दीच्योशीराह्वयपाठाः" इति। अव काथकरणे द्रव्यादिमानस्यानुक्तत्वात् न्यायतो मानव्यवस्था, तत्रेह यद्यपि क्वाथसंविधानं विशेषेण नोक्तम्, तथापि रोगभिषगजितीये क्वाथकरणसंविधानमुक्तम्, “छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रक्षाल्य पानीयेनाभ्यासिन्न्चेत्" इत्यादिना “गतरसेष्वौषधेषु स्थालीमवतार्य परिपूतं कषायम्" इत्यन्तेन, तदेव सर्वकषायकरणसंविधानं ज्ञेयम् । अत्र हि यद्यपि काथ्यद्व्यमानं तथा द्रवमानं स्थाप्यकषायमानं नोक्तम्, तथापि यावता जलेन पक्व सत् गतरसं भवति, तावति जले तावद्रव्यं देयमिति लभ्यते, तथा यावता काथशेषेण गतरसान्यौषधानि भवन्ति, तावान् काथः स्थाप्यत इति च लभ्यते, एतच्चौषधानां गतरसत्वं द्रवभागलयक्षयादेव भवतीति दृश्यते, तेन चतुर्भागावशिष्टता सर्वक्वाथे विशेषवचनं विना कर्त्तच्या ; काथार्थजलदानन्स्तु द्रब्यापेक्षया भवति ; अख मृदुनि द्रव्ये चतुर्गुणेन जलेन, कठिनेऽष्टगुणेन, कठिनतरे षोड़शगुणेन पाके सति चतुर्भागावशेषे गतरसत्वं भवति, तथा मृडन्यल्पे द्रव्ये मूरि जलं दीयते, स्तोकेन जलेन काथ्यद्रव्यस्य गतरसत्वाभावात्। तेन कर्षादारभ्य पलपर्य्यन्तक्वाथेय मृदुन्यपि षोडशगुणं जलं दीयते, पलादूर्धन्तु कुड़वपर्यन्तमष्टगुणं दीयते। तदेवमनिर्दिष्टद्रव्यजलशेषमानेनाप्याचार्येण गतरसत्वादिकाभिधानात् सर्वकषायद्रव्यादिपरिमाणमुक्त स्यात्, यदि हि द्रव्यादीनां नियतं प्रमाणं ब्रूयात् तदा द्रव्यापेक्षया तथा स्नेहसाधनापेक्षया च यभिन्न परिमाणं तद् गृहीतं स्यात् ; यदर्थाभिधायिका स्वतन्वान्तरे परिभाषा लिख्यते पातव्यकषाये कृष्णावेयेण-"क्वाथ्यग्रव्यपले कुर्यात् प्रस्थाई पादशेषितम्" इति ; अन्यताप्युक्तम्-"क्काथ्यद्रव्यपले वारि द्विरष्टगुणमिण्यते” इति, तथा "कर्षादौ तु पलं यावर् दद्यात् षोडशिकं जलम्। ततस्तु कुड़वं यावत् तोयमष्टगुणं भवेत् ॥" इति। सुश्रुते च स्नेहादिक्वाथपरिभाषा-"चतुर्गुणेनाष्टगुणेन षोड़शगुणेनाम्भसा अभ्यासिष्य
For Private and Personal Use Only