________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः] चिकित्सितस्थानम्। २४८३ गुरूष्णस्निग्धमधुरान् कषायांश्च नवज्वरे।। आहारान् दोषपत्यथ प्रायशः परिवजयेत् ॥ ११ ॥ अन्नपानक्रमः सिद्धो ज्वरनः संप्रकाशितः। अत ऊद्ध प्रवक्ष्यन्ते कषाया ज्वरनाशनाः ॥ १२०॥ पाक्यं शीतकषायं वा मुस्तपर्पटकं पिबेत् । सनागरं पर्पटकं पिबेद वा सदुरालभम् ॥
गङ्गाधरः-अथानुक्ताहारमुपसंहर्तुमाह-गुरूष्णेत्यादि। नवज्वरे गुरुन् आहारान् उष्णवीर्यान् आहारान् स्निग्धानाहारान् मधुरान् आहारान् कषायांश्चआहारान् दोषपत्त्यर्थं प्रायशः परिवर्जयेत् । प्रायश इत्यनेन क्षयानिलजादिषु ज्वरेषु गुरूष्णस्निग्धमधुरानप्याहारान् दापयेत् कपायांस्त्वाहारान् सव्वेत्रैव वज्जयेदिति ज्ञापनार्थ पृथक पदं कषायांश्चति ॥ ११९ ॥
गङ्गाधरः-उपसंहरति-अन्नपानेत्यादि। सिद्धो देशकालमात्रा बैलदोषाग्निबलानुरूपेण प्रयोजितोऽप्रतिहतवीर्येण ज्वरनत्वेन सिद्धफलः । अथ लङ्घनानन्तरं यथा यवाग्वादयः प्रयोक्तव्यास्तथा पाचनकषायादयश्च प्रयोक्तव्यास्त के इत्यत आह-अत ऊद्ध मित्यादि। ज्वरनाशना ज्वराणां दोषपाचनशमनाभ्यां नाशकाः॥१२०॥
गङ्गाधरः-के ते कषाया इत्यत आह-पाक्यमित्यादि। मुस्तञ्च पर्पटकश्च पाक्यं पाकेन निष्पाद्यकाथरूपमित्यर्थः। शीतकषायं वेति पाक्यं
मद्यसात्म्यस्तु यो भवेत्। तस्मै दोषबलं दृष्ट्वा युक्त्या मद्य विधीयते ॥” इति। गुरूष्णेत्यादिना गुरूष्णाद्यनिषेधः, पूर्वन्तु कषायनिषेधो यद्यपि सामान्येन कृतः, तथापीहान्नप्रतिषेधप्रस्तावादभ्यः हितप्रतिषेधश्च पुनः क्रियते ॥ ११८-१२०॥
चक्रपाणिः-पाक्यमिति पूतम् ; शीतकषायस्तु द्रव्यं संक्षुण्णमुष्णोदके प्रक्षिप्य निशास्थितम् । अव शीतकषायपरिभाषा--"द्रव्यादापोथितात् तोये प्रतते निशि संस्थितात्। कषायो योऽभिनिाति स शीतः समुदाहृतः॥” इति । अवापि यद्यपि द्रव्यस्य पानीयस्य च मानं नोक्तम्, तथापि काथद्रव्यसमं द्रव्यं ग्राह्यम्, पानीयन्तु यावन्मानः पेयः काथो भवति, तावन्मानं ग्राह्यम्, न ह्यत पानीयं काथद्ववद ग्राह्य बाहुल्यतः पानाशक्यत्वात् ; किंवा परिभाषयैव जलं देयम् ;-"षडभिः पलैश्चतुर्भिर्वा सलिलात् शीतफाण्टयोः। आप्लुतं भेषजपलं रसाख्यया पलद्वयम् ॥” शीत
For Private and Personal Use Only