________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४८२
चरक-संहिता। [ ज्वरचिकित्सितम् प्रदद्यान्मांससात्म्याय ज्वरिताय ज्वरापहान् । इषदम्लाननम्लान् वा रसान् काले विचक्षणः॥ कुक्कुटांश्च मयूरांश्च तित्तिरिक्रौञ्चवर्तकान् । गुरूष्णात्वान्न शंसन्ति ज्वरे केचिचिकित्सकाः ॥११६ ॥ लङ्घनेनानिलबलं ज्वरे यद्यधिकं भवेत्।। भिषङ् मात्राधिकल्पज्ञो दद्यात् तानपि कालवित् ॥ ११७॥ घाम्बु चानुपानार्थं तृषिताय प्रदापयेत् ।
मद्य वा मद्यसात्म्याय यथादोषं यथाबलम् ॥ ११८॥ अत्र रोचकार्थमेषां मांसस्य रसान् दाहिमाम्लेनाल्पाम्लीकृतान् अनम्लान् अम्लहीनान वा विचक्षणो दद्यात् । कुक टानित्यादि। क्रौञ्चा वकाः । वर्तकाः वटेर इति लोके ॥११६॥
गङ्गाधरः-अथ यद्यपि मांसरसस्य कालोऽग्रे तर्पणानन्तरं सप्ताहानन्तरं दशाहं यावत् दशाहानन्तरमपि कफोत्तरालवितेऽपि चोक्तस्तथाप्यत्र विषयान्तरमाह-लङ्घनेनेत्यादि । तान् लावादीन् मांसरसान् तस्मै लङ्घनेन बलवदनिलाय ज्वरितायापि कालवित् मात्राविकल्पको तदनिलबलापेक्षया मात्रया दद्यात् । पूर्वोक्तरूपाय च दद्यादिति अपिशब्देन शाप्यते ॥११७॥
गङ्गाधरः-ननु यवाग्वादिसमुपाचरतेऽनुपानाथ किं देयमित्यत आहघम्माम्बु इत्यादि। अद्धशिष्टमुष्णाम्ब तृषितायानुपानाथं प्रदापयेत् । मद्यसात्म्याय तु यथादोषं मद्य वा यथावलं परिमितं यवागू पिबते तृषिताय लध्वन्न भुञ्जानाय वा तृषितायानुपानार्थ प्रदापयेत् ॥ ११८॥
पृषतो बिन्दुचितितो हरिणः। रसकरणस्य शास्त्रम्-“पलानि द्वादश प्रस्थे घनेऽथ तनुके तु षट्। मांसस्य वटकं कुर्यात् पलमच्छतरे रसे ॥” इति। यस तु मांसस्य द्रव्यान्तरेण साधनम्, तत यवागूवत् साधनं व्याख्येयम् । “माताविकल्पज्ञः” इत्यनेन तावत्या मालया तेन च संस्कृतेन विकल्पेनानुष्णलघुलावादयो देयाः, येन गौरवादग्निवधमुष्णत्वाद् वा ज्वरावृत्तिं न जनयन्तीति दर्शयति ॥ ११४-११७॥
चक्रपाणिः-घाम्बु उष्णाम्बु । धाम्ब्वादिश्लोकं शोधनार्थं वदन्ति, अनुपानव्यवस्थायाम् उष्णपानीयमययोरहितत्वं पूर्वमुक्तमेवेति तपादानम्, तथाच तन्तान्तरे-“ज्वरे पिबेदनुष्णाम्बु
For Private and Personal Use Only