________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः चिकित्सितस्थानम् ।
२४६१ रुक्षं तेजो ज्वरकर तेजसा रुक्षितस्य च ।
यः स्यादनुबलो धातुः स्नेहसाध्यः स चानिलः ॥१३२॥ गङ्गाधरः-ननु रस्तु खलु रुद्रकोपाग्निसम्भूतखात् तेजसः स्नेहश्च तेजोवर्द्धकः कथं ज्वरं शमयेदित्यत आह-रुक्षमित्यादि। तेजो रुक्षं, तच्चेत् ज्वरकरं, तर्हि तेन तेजसा रुक्षेण रुक्षितस्य च पुंसो यस्तत्तेजोधातुर्यस्यानिलस्यानुबलोऽनुबन्धः स चानिलो रुक्षः स्नेहसाध्यः स्यादतस्तेषां सपिभिषगजितमित्यथः ॥१३२॥
चक्रपाणिः-ननु अविशेषेण सर्वज्वरेषु कषायानन्तरं सर्पिरुच्यते, तत् कथमुपपन्न भवतु इत्याह--रुक्षं तेज इत्यादि। तल तेजःशब्दो यद्यपि पित्तानलस्नेहशक्तिद्यु तिधामग्रीष्मेषु भवति, तथापीह तेजःशब्देनोण्माभिधीयते, तेन रुक्षस्वरूप उष्मा सर्चत ज्वरकर इत्युक्तं भवति, स चोष्मा आमाशयविक्षिप्तस्याग्नेस्तथा देहभवः, तथा ज्वरप्रभावकृतश्च ज्वररूपो ज्ञेयः ; यदुक्तम् –“स्वेन तेनोष्मणा चैव कृत्वा देहोष्मणो बलम् । स्रोतांसि रुद्धा सम्प्राप्ताः केवलं देहमुल्वणाः। सन्तापमधिकं देहे जनयन्ति” इत्यादि। अयञ्च उष्मा सूक्ष्मविचारेण यद्यपि पित्तस्य भवति, यदुक्तम् - "उष्मा पित्ताइते नास्ति ज्वरो नास्न्युष्मणा विना", पित्तञ्च–“सस्नेहमुष्णं तीक्ष्णम्" इत्यादिना ग्रन्थेन स्निग्धमुक्तम्, तथाप्यवस्थावशात् पित्तं निरामं सत् निःस्नेहं भवति, स्नेहश्च पित्तगुणे द्रवयोगनिमित्तकः, न सांसिद्धिकः । तेन स्नेहागमः पित्तस्य वाह्यत एवावस्थायामेव। निःस्नेहस्य पित्तस्योष्मा रुक्ष एव भवति। इयञ्च व्याध्यवस्था व्याधिप्रभावादेवाजीर्णावस्थायां भवति, यथा मदात्ययेऽपि वातपित्तम् । यदुक्तम् - "पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः” इति । क्षारपाणिनाप्युक्तम्-"ज्वरोष्मणा रुक्षितेषु धातुषु बलवान् मारुतो ज्वरानुबन्धं विषमज्वराणां योऽन्यतमं कुर्य्यात्" इत्यादि। तत्र रुक्षेण ज्वरेण तेजसा ज्वरकालसम्बन्धाद् रुक्षितस्य ज्वरिणो योऽनुबलो धातुरनिलः स्यात्, स च स्नेहबध्य इति सपिस्थितस्नेहगुणवध्य इत्यर्थः। 'च'कारात्, रुक्षं तेजो यत् ज्वरकरम्, तदपि सर्पिःस्थितस्नेहवध्यमिति समुच्चिनोति । 'धातुः' इति विशेषणेन वायोर्धारणात्मकतोच्यते, ततश्च धारणात्मकस्य वायोः प्रकोपो महात्यय इति सूचयति । अनु पश्चाद् बलं भवति यस्य सोऽनुबलः। एतेन सर्वज्वरेषु कषायादिना द्वादशाहेन च कालेनामकफांशपरिक्षये सति ज्वरोष्मा वृद्धो भवति, तद्विरुक्षणाच्च वायुरपि वृद्धो भवति, अब ज्वरोष्मणि पित्तधर्मे सर्पिस्तावत् शैत्यादृविहितं भवतीति प्रसिद्धत्वानोक्तम् । स्नेहांशेनेव तु सर्पिर्यथा पित्तोष्माणं ज्वरकरं रुक्षस्वरूपं तथानिलञ्च स्नेहात् शमयति, तत् "रुक्षं तेजः" इत्यादिना श्लोकेनोक्तं भवति। अन्ये तु 'तेजः'शब्देनेह पित्तमेव ग्राहयन्ति। पित्तं हि द्विविधम्सद्रवं निवञ्च ; यत् सद्रवम् , तत् सस्नेहञ्च तु लङ्घनादिना क्षपितमधोभागेन निर्हरद रुक्षं भवति। यदि "रुक्षं तेजः” इत्यनेन पित्तमुच्यते, तदा “य स्यादनुबलो धातुः" इत्यनेनानुबन्धरूपकर्फ ग्राहयन्ति, ततोऽनुबन्धः कफः, रुक्षं पित्तम् , वातश्च स्नेहसाध्यो भवतीत्यथः
* स्नेहबध्यः इति वा पाठः।
For Private and Personal Use Only