________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४७८
चरक-संहिता। [ज्वरचिकित्सितम् लाजपेयां सुखजरां पिप्पलीनागरैः शृताम् । पिबेज्ज्वरी ज्वरहरां क्षुद्वानल्याग्निरादितः ॥ १०५॥ अम्लाभिलाषी तामेव दाडिमाम्लां सनागराम् । सृष्टविट पैत्तिको वाथ शीतां मधुयुतां पिबेत् ॥ १०६ ॥ पेयां वा रक्तशालीनां पार्श्ववस्तिशिरोरुजि । श्वदंष्ट्राकण्टकारीभ्यां सिद्धां ज्वरहरां पिबेत् ॥ १०७॥
वत्सरातीतरक्तशालिषष्टिकादयः अन्नपानादिकोक्ताः। यवाग्वो मण्डपेयाविलेप्यः, ओदनोऽनम् ॥ १०४ ॥
गड्डायरः-ननु यथास्खौषधसिद्धा यवावस्तु विहितास्ताः किं रक्तशाल्यादिकृततण्डुलः कर्त्तव्या उतान्यरित्यत आह-लाजेत्यादि । ज्वरितः प्रथमतो लङ्घन सम्यगाचय्ये यदा क्षद्वान् भवति, तदाल्पानियस्मात्, तस्मादादितः सुखजरां ज्वरहराश्च पिप्पलीनागरः कल्करूपैः काथ्यरूपैर्वा कृतकाथैः शृतां पका लाजपेयां लाजकृतां यवाग् मण्डरूपां पिबेत्, अग्निबलापेक्षया पेयां वा विलेपी वा॥१०५॥
गङ्गाधरः-अम्लेत्यादि। यदा तु स ज्वरितोऽम्लाभिलाषी स्यात् तदा तामेव लाजपेयां सनागरां शुष्ठीमात्रकाथकल्कान्यतरपक्कां दाडिमरसेनाम्लीकृतां पिबेत्। तत्र यदि स ज्वरितः सृष्टविट् भवति पैत्तिको वा भवति शीतां लाजपेयां नागरभृतां मधुयुतां पिबेत् । तत्र पाश्ववस्तिशिरोरुजि श्वदंष्टाकण्टकारीभ्यां काथकल्कान्यतररूपाभ्यां सिद्धां पका रक्तशाल्यादीनां पुराणानां पेयां वा ज्वरहरां पिबेत् ॥१०६ । १०७॥
पष्टिकैः सह" इति केचित् पठन्ति, पुनरुक्त 'शालयः' इति पदेन यवकादीनां निरासः क्रियते । यद्यपि “शूकधान्यं शमीधान्यं समातीतं प्रशस्यते” इत्युक्तमेव, तथापि प्रमादादपुराणग्रहणनिषेधार्थ 'पुराणाः' इति पदम् ॥ १०३-१०४ ॥
चक्रपाणिः-लाजपेयामित्यादिका दश यवाग्वः, तत्र प्रथमा श्लेष्मणीति हरिश्चन्द्रः । किंवा लाजपेयां सुखजराम् इत्येका, तथा पिप्पलीनागरैः शृतामिति द्वितीया, एवं शेषाभिः सहकादश पेयाः। सनागरां सृथविट् पिबेदिति योजना, सनागरामेव शीतां मधुयुतां पिबेत्, पैत्तिक इत्यपरा। शुण्ठ्यास्तु मधुरपाकित्वेन पाचनत्वेन च पित्ते प्रयोगः। इह
For Private and Personal Use Only