________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः] चिकित्सितस्थानम्। २४७७
तैराशु प्रशमं याति वहिर्गिगतो ज्वरः। लभन्ते सुखमङ्गानि बलं वर्णश्च वर्द्धते ॥ १०१॥ धूपनाञ्जनयोगैश्च यान्ति जीर्णज्वराः शमम् । त्वङ्मात्रशेषो येषाश्च भवत्यागन्तुरन्वयः ॥ १०२ ॥ इति क्रियाक्रमः सिद्धो ज्वरघ्नः संप्रकाशितः। तेषान्त्वेष क्रमस्तानि द्रव्याण्यूद्धमतः शृणु ॥ १०३ ॥ रक्तशाल्यादयः शस्ताः पुराणाः षष्टिकैः सह ।
यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः ॥ १०४॥ शीतैश्चन्दनादिभिः द्रव्यः कृतान् दद्यात् । तश्चाभ्यङ्गादिभिः वहिगिगतो ज्वरः आशु प्रशमं याति ॥१०॥
गङ्गाधरः-एवमेव सम्यगाचरिता अपि ज्वरा यदि न शाम्यन्ति, तदा किं कायं तदाह-धूपनेत्यादि। ननु धृपनाञ्जनयोगैः किं सर्च एव दोषजा जीर्णज्वराः शाम्यन्तीत्यत आह-खङमात्रेत्यादि। केवले चर्मणि शेषो ज्वरशेषो वत्तत इति खङ्मात्रशेषः। येषां जीर्णज्वराणां खङ्मात्रे शेषो वर्त्तते, येषाश्च जीर्णज्वराणामागन्तुभूताचावेशोऽन्वयो योगस्ते च जीर्णज्वराः शमं यान्ति ॥१०२॥
गङ्गाधरः-अथोपसंहरति—इतीत्यादि। ननूक्तानां यवाग्वादीनां कानि द्रव्याणीत्यत आह-तेषामित्यादि। तेषां यवाग्वादिक्रियाकमाणां तानि द्रव्याणि अत ऊद्ध क्रमात् शृणु ॥१०३॥
गङ्गाधरः-रक्तशाल्यादय इत्यादि। समातीतं गुणोत्तरमिति वचनात् वाहप्रशमने न लेपोऽपि बहलः कर्त्तव्यः स्यात्, स च तनुरेव कर्त्तव्यः। उक्तं हि-"श्लक्ष्णपिष्टधनो लेपश्चन्दनस्यापि दाहकृत्" इत्यादि। विभज्येति शीतोष्णकृतमिति उष्णाभिप्राय शीताभिप्रायञ्च विभज्य यथासंख्यं शीतकृतं तथोष्णकृतम्, वक्ष्यति हि-अभ्यङ्गाश्च प्रदेहांश्च परिषेकांश्च कारयेत्। यथाभिलाषं शीतोष्णं विभज्य द्विविधं ज्वरम् ॥” इति। शीतोष्णता च द्रव्यमहिम्ना संस्कारेण च ज्ञेया ॥ १०१॥
चक्रपाणिः-त्वङ्मातशेषा इति धात्वन्तरत्यागेन त्वङ्मालावस्थितदोषजन्याः। येषां • वा आगन्तुर्भूतरूपोऽन्वयः कारणं भवति ज्वराणाम् , ते धूपादिना शमं यान्ति ॥ १०२॥
चक्रपाणिः-क्रमप्राप्तौषधप्रश्नस्योत्तरमाह-येषामित्यादि। "रक्तशाल्यादय शस्ताः शालयः
For Private and Personal Use Only