________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः] चिकित्सितस्थानम्।
२४७६ ज्वरातिसारी पेयां वा पिबेत् साम्लां शृतां नरः। शालपर्णी-8-बलाविल्व-नागरोत्पलधान्यकैः ॥ १०८॥ शृतां विदारीगन्धायर्दीपनी स्वेदनीं नरः। कासी श्वासी च हिकी च यवागू ज्वरितः पिबेत् ॥ १० ॥ विबद्धवर्चाः सयवां पिप्पल्यामलकः शृताम् । सर्पिष्मतीं पिबेत् पेयां ज्वरी दोषानुलोमनीम् ॥ ११०॥ कोष्ठे विबद्धे सेरुजि पिबेत् पेयां शृतां ज्वरी। मृद्वीकापिप्पलीमूल-चव्यामलकनागरैः ॥ १११॥ पिबेत् सविल्वां पेयां वा ज्वरे सपरिकत्तिके।
बलावृक्षाम्लकोलाम्ल-कलशीधावनीशृताम् ॥ ११२ ॥ गङ्गाधरः-ज्वरातिसारीत्यादि। यदि चात्र स ज्वरितो नरो ज्वरातिसारी भवति, तर्हि शालपर्णीबलाविल्वशलादुनागरनीलोत्पलधन्याकैः कल्कैः काथरूपैः वा शृतां रक्तशालीनां पुराणानां पेयां साम्लां दाडिमेनाम्लीकृतां पिबेत् ॥१०८॥
गङ्गाधरः-भृतामित्यादि। तत्र ज्वरितः कासी वा श्वासी वा हिक्की वा चेद्भवति, तदा विदारिगन्धादा शालपादेशः “विदारीगन्धां वृहतीं पृश्निपर्णी निदिग्धिकाम् । विद्याविदारीगन्धाद्य श्वदंष्ट्रापञ्चमं गणम् ॥” इति । तैः कल्कैः काथरूपैर्वा भृतां यवागू दीपनी स्वेदनौं यस्मात् तस्मात् पिबेत् ॥१०९॥
गङ्गाधरः-विबद्धत्यादि। यो ज्वरी विबद्धवर्चाः स सयवां रक्तशालीनां पुराणानां यवागू यवसमानरक्तशालीतण्डुलानामेकीकृत्य पिप्पल्यामलकैः काथरूपैः कल्करूपैर्वा शृतां पेयां सर्पिष्मती सर्पिषि गव्ये सन्तलितामनुलोमनी यस्मात् तस्मात् पिबेत् ॥ ११०॥
गङ्गाधरः-कोष्ठ इत्यादि। ज्वरी कोष्ठे पक्कामान्याद्याशये विबद्ध सरुजि च। मृदीका द्राक्षा। द्राक्षापिप्पलीमूलचव्यामलकशुण्ठीभिः पञ्चभिः काथरूपैः कल्करूपैर्वा भृतां रक्तशालीनां पुराणानां पेयां पिबेत् ॥११॥
गङ्गाधरः-पिवेदित्यादि। सपरिकर्तिके गुदै कर्त्तनवत् पीडायुक्ते ज्वरे विदारीगन्धाद्य पञ्चमूलम् । सयवामितिपदेन षष्टितण्डुलका- पिबेदिति। सविल्वाम्
* शालपर्णीस्थाने पृश्निपणीति केचित् पठन्ति ।
For Private and Personal Use Only