________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः ]
चिकित्सितस्थानम् ।
२४७१
तस्मात् काले शान्तौ च ज्वरस्य शेषत्वाद्विषमत्वं यातीति । नन्वेवं युक्तिवन चास्ति तोयपेयादिसंस्कारभेषजस्यामदोषज्वरभू योज्वलनकरत्वयोरभावे युक्तिविशेष इति चेन्न । अस्ति चात्र युक्तिः, तोयपेयादिसंस्कारद्रव्याणाम् आमदोषपाककरत्वान्न भूयो दोषामतामज्वालकत्वं न वा ज्वरवैषम्यकरत्वं स्वल्पमानत्वात् सम्भवतीति, तस्माद् वृद्धवचनमप्येवं व्याख्येयं - मुख्यभेषजस्य संशोधनस्य शमनीयस्य च सम्बन्धो निषिद्धस्तरुणे ज्वरे तस्मात् तोयपेयादिसस्कारे यद् भेषजं प्रयुज्यते तदामदोषपाचकत्वात् शोधनसंशमनकरत्वाभावात् निर्दोषमिति । ततस्तु स्वरसभूत कल्कादिकः पाचनकषायो न प्रतिषिद्धो भवतीति । एवं सुश्रुतवचनमपि "शोधनं भेषजमामदोषस्य ज्वरं भूयो ज्वलयति, शमनीयन्तु भेषजं विषमज्वरं करोति" इति व्याख्येयम् । एवं हारीतेन पेयादिकमुक्त्वा "एतां क्रियां प्रयुञ्जीत पड़रात्रं सप्तमेऽहनि । पिवेत् कषायसंयोगान् ज्वरघ्नान् साधुसाधितान” इति यदुक्तं तदपि ज्वरारम्भदिनं त्यक्त्वा षड्रात्रं यावत् लङ्घनमण्डादिकं पाचनकषायञ्च प्रयुञ्जीत, सप्तनेऽह्नि ज्वरघ्नान् कषायसंयोगान् शमनीयकषायान् पिवेदिति व्याख्येयम् । तथा । " इति षाड्रात्रिकः प्रोक्तो नवज्वरहितो विधिः । ततः परं पाचनीयं शमनं वा ज्वरे हितम्” इति खरनादवचनेऽपि ततः परं पाचनीयमिति सप्ताहात् परतोऽपि सामे पाचनीयं निरामे शमनं हितमेतेनार्व्वा षड्रात्रात् पाचनं हितमिति चोक्तं भवति । ननु पीताम्बुलेङ्गितः क्षीणोऽजीर्णी भुक्तः पिपासितः । न पिबेदौषधं जन्तुः संशोधनमतरदिति वचनात् कथं लङ्घनकाले पाचनकषायो युज्यते १ उच्यते, प्रथमं लङ्घनमारभ्य प्राक् सम्यगलङ्घनलक्षणोदयात् पुरुषो न लङ्घितो भवति न च तदा पाचनकषायो विहितः सम्यग्लङ्घन लक्षणोदये तु लङ्घितः क्षीणः स्यात् तदा मण्डादिकञ्च पिबति ततः परं पाचनकपायञ्च पिबतीति न काप्यनुपपत्तिः । ननु तरुणज्वरे वमनमुक्तं मुश्रते तु शोधनं प्रतिषिद्धमिति विरोध इति चेन्न तरुणज्वरे कफप्रधानोतक्लिष्टदोपस्य वमनं विधेयं तदितरस्य प्रति षिद्धं, विरेचनञ्च सव्र्व्वस्यैव प्रतिषिद्धमिति बोध्यमिति ॥ ९१ ॥
;
यत् — षड्ानात् परतः सप्तमे दिवसे कषायदानं विहितम्, – “पाचनं शमनीयच" इत्यादिना स्वतन्त्रेण तव सप्तमे दिवसे तरुण एव ज्वरो भवति, तरुणे च ज्वरे कषायपानं निषिद्धमिति विरोधं पश्यन् मधुरादिद्रव्यकृतकषायस्य सप्तमेऽहनि अप्रतिषेधः, कषायकषायस्य तु सप्तमेऽडि प्रतिषेध इत्युपदर्शनार्थं 'न तु कल्पनम्' इत्यादि कृतम् ततश्च ज्वराविषदहे सर्व्वकषायप्रतिषेध एव, सप्तमदिवसप्राप्त तु तरुणे कषायद्रव्यमातप्रतिषेध इति वाक्यार्थो भवति ॥ ९१ ॥
For Private and Personal Use Only