________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
:२४७२
चरक-संहिता। [ ज्वरचिकित्सितम् यूरैरम्लैरनम्नैर्वा जाङ्गलैर्वा रसहितः। दशाहं यावदनीयाल्लघ्वन्नं ज्वरशान्तये ॥१२॥ अत ऊर्द्ध कफे मन्दे वातपित्तोत्तरे ज्वरे। परिपक्वेषु दोषेषु सर्पिःपानं यथामृतम् ॥ ३ ॥ गङ्गाधर-ननु प्रतिभोजितं कः कियन्तं दिवसमित्यत आह-यरित्यादि । दाडिमामलकादिभिः ज्वरहितरम्लेरम्लीकृतैयङ्गरम्लकामम् अनम्लकामन्वनम्लयूंहितमद्गमसूरचणककुलत्थमुकुष्टकबिदलकृतैः शम्बरैणलावादिमांससम्भवे. थानम्लः रसैलेवन संवत्सरातीतशालिषष्टिकान्न ज्वरशान्तये दशाहं यावत् सप्ताहे नैराम्ये सत्यश्नीयात् नराम्ये तु यदिनं नैराम्यं भवति ततः परदिनमश्नीयादिति व्याख्येयं यावज्ज्वरमृदूभावादित्युक्तेः॥९२॥
गङ्गाधरः-अत ऊ नैराम्ये सति तदुत्तरमष्टमाहादि त्रिदिनं यषादिभिः लघ्वन प्रतिभोजितं शमनीयकषायपानादनन्तरमेकादशाहादितः। कफे मन्देऽल्पलमापन्ने परिपक्वेषु सर्वतोभावेन पकषु दोषेषु सपिः संस्कृतं वक्ष्यमाणं यजज्वरहितं घृतं तत् पानम् । ज्वराः कषायैर्वमनैः लङ्घनैले घुभोजनः। रुक्षस्य ये न शाम्यन्ति सर्पिस्तेषां भिषगजितमिति तन्त्रान्तरेऽप्पुक्तम् ॥९३॥
चक्रपाणिः-यवागूत्तरकालं भाजनसाधनमाह-यूषैरित्यादि। यदि कफप्रबलता बलवदग्निश्च, तदा यूपः, वातप्राबल्ये तु दुर्बलत्वे च रसैरिति व्यवस्था.। अम्लविकल्पोऽपि साल्यापेक्षया च ज्ञेयः। वक्ष्यति हि-"मन्दाग्नयेऽम्लसात्मपाय तत् स्तोकमपि कल्पयेत्" इति। अम्लचाल ज्वरन्नदाडिमाद्यश्च कार्यम्। लघिति मातालघु प्रकृतिलघु च रक्तशाल्यादिकम् ॥ ९२॥
चक्रपाणिः-दशाहात् परतः प्रायः कत्तव्यमाह-अत इत्यादि। कफे मन्दे ज्वर इति मन्दकफे। यदि तु कफो नास्त्येव दोषरूपः, तदा सर्पिष्पाणं कर्त्तव्यमित्यर्थः। परिपक्क विति सर्वथा पक्केषु। सपिरिति वक्तव्ये सर्पिष्पाणग्रहणेनानुवासनाभ्यङ्गादिना सर्पिष उपयोगमस्मिन् काले निषेधयति । अनुवासनाभ्यङ्गौ हि पश्चात्कालवक्तव्यौ। इयञ्च मन्दकफवातपित्तोत्तरस्वरूपावस्था प्रायेण दशाहादूद्ध कालमहिम्नैव सर्वज्वरे व्यक्ता भवति, यथा-वृद्ध पुरुषे प्रबलवातत्वम्, तरुणज्वरे सामदोषता, तथामाशयसमुत्थे कफप्रबलत्वं भवति, तथैव दशाहादुत्तरं लङ्घनादिना कफः क्षीणो भवति, ज्वरसन्तापेन च रुक्षेण धातुशोषणाच्च वातपित्त वर्दै ते। यत् तु पेयाकषायसर्पिःक्षीरविरेचनानां षड़हे देयत्वम्, तत् प्रायिकम्। तेन दशाहादूई द्वितीयषड़ह एवावस्थाविशेषप्राप्ती सर्पिर्दानं न विरोधि ॥ ९३ ॥
For Private and Personal Use Only