________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४७०
चरक-संहिता। [ ज्वरचिकित्सितम् करवात् निषिद्ध एवोक्तवचनेन न तु कल्पनान्तर्गतत्वेन विहित इत्यर्थः। तत्र यद्यपि मधुराम्लकटुतिक्तानां न स्तम्भित्वं तथापि मधुरस्य वातपित्ताविरोधिस्वेन पत्तिकवातिकज्वरयोरेव युक्तस्तदयोनिः कषायः। अम्लयोनिस्तथा कटुकयोनिश्च कषायो यपि सर्वत्र ज्वरे पित्तसम्बन्धेन पित्तविरोधवज्ज नं विधेयमित्यतो न युज्यते । उक्तं हि "उष्मा पित्तादृते नास्ति ज्वरो नास्त्युष्मणा विना। तस्मात् पित्तविरुद्धानि त्यत पित्ताधिकेऽधिकम् ॥” इति । तथापि भूयसा तिक्तकेन द्रव्यान्तरेण योगे पिप्पल्यन्यादिकटकानामपि दाडिमामलकादम्लानामपि पित्तकफाविरोधित्वं सम्पद्यते तिक्तादिबहुभिवहशक्षयश्च कटुम्लाल्पद्रव्येणाल्पांशद्धौ चाधिकांशहास एघ निव्वेत्तते आमक्षयश्च कटुम्लौष्ण्येन भवति । तिक्तयोनिस्तु पित्ते कफे च युक्तो वाते तु सामे रससम्बन्धेन पित्तानुबन्धाच वायोयोगवाहिलात् युक्त एव भवति इत्यव्यभिचारण सर्वथा सर्वज्वरे दोषामतापाचनत्वेन तिक्तको रस इत्युक्तम्। ननु पाचनं तोयपेयादि पाययेत् षड़ह यावज्ज्वरमृदूभावाद्वा षड़हऽतीते शमनीयं कषायं पाययेदित्यथे इति चेन्न ; न तु कालं समुद्दिइयेत्यादि वचनासंगतः । ननु सुश्रुते “भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम् । शोधनं शमनीयन्तु करोति विषमज्वरम्” इति यदुक्तम्-तेन भेषजमात्रस्य तरुणे ज्वरे प्रतिषेधः ज्वरस्य भूयोज्वलनात्, तत्रापि संशोधनशमनयोस्तु विषमज्वरकरखात्मकच्यापत्त्या च प्रतिषेधः ख्याप्यते। तहि कथं तरुणे ज्वरे मण्डादिवत् पाचनकषायो युज्यते कथं यथास्वौषधैः सिद्धा यवाग्यो वा षडङ्गपानीयादिकानि च युज्यन्ते इति ? तत्राहु द्धाः “मुख्यभेषजसम्बन्धो निषिद्धस्तरुणे ज्वरे। तोयपेयादिसंस्कारे निदोषं तेन भेषजम् ॥” इति। ननु वृद्धा यदेवं वदन्ति तत्र का युक्तिः कस्माद वा मुख्यभेषजमामदोषस्य भूयो ज्वलयति कस्मादवा तोयपेयादिसंस्कारभेषजं न ज्वलयतीति ? तत्रोच्यते। शोधनन्तु भेषजं सामस्य सचदेहगधातुस्थदोषस्य आकर्षणे सम्यङ् न प्रभवति तस्मादामदोषस्य ज्वरं भूयो ज्वलयति, शमनीयन्तु भेषजमामदोषस्यातिबलवत्तया शमयितु न शक्नोति परन्तु शमनाय चेष्टते यैः कषायैरामलकादिभिः स्वरसादिरूपः कषायः स निषिध्यत इत्यर्थः। न चानेन कपाथरसकृतस्वरसादिनिषेधेन मधुरादिकृतस्वरसादीनां तरुणज्वरे प्रयोगो भवति। स्वरसादिभेषजस्य अतिगुरोस्तरुणज्वरेऽविधानात् । तेन कषायकषायप्रतिषेधेन तिक्तद्रव्यकृतषडङ्गादिकल्पनाकषायस्य विहितस्याविरोधः साध्यते, न तु अविहितस्वरसादिविधानं क्रियते। स्वरसादिगुरुभेषजस्य तहणज्वरे निषेधवचनम्,-"भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम्।" अन्ये तु ब्रुवते
For Private and Personal Use Only