________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य भध्यायः] चिकित्सितस्थानम् ।
२४६६ स्तभ्यन्ते न विपच्यन्ते कुर्वन्ति विषमज्वरम् । दोषा बद्धाः कषायेण स्तम्भित्वात् तरुणे ज्वरे ॥ न तु कल्पनमुद्दिश्य कषायः प्रतिषिध्यते। यः कषायकषायः स्यात् स वज्यस्तरुणवरे ॥ १ ॥ अथ नवज्वरे कषायरसप्रयोगे दोषमाह-स्तभ्यन्ते इत्यादि। कषायांश्च विवज्जयेदिति वचनेन यत् कषायप्रतिषेधेऽप्युक्ते ह्ये तद्वचनं तनापज्ज्ञापनार्थम् । तरुणे ज्वरे सप्ताहं यावज्ज्वरे दोषाणां सामत्वेन स्रोतोविबन्धकत्वं सर्चदेहानुमत्वं धातुस्थलञ्चेति, तादृशदोषाः कषायरसस्य स्तम्भिवात् तेन कषायेण तरुणे ज्वरे उपयुक्तेन बद्धाः सन्तः स्तभ्यन्ते स्तब्धा अनिर्गमशीलाः क्रियन्ते न च ते दोषाः पच्यन्ते विषमज्वरश्च कुर्वन्तीति व्यापदः। ननु किं मधुरादिरसयोनिकानां सर्वेषां स्वरसादीनां कषायाणां स्तम्भित्वं, न च तदुपपद्यते तेषां सरस्ववचनश्चात्रेयभद्रकाप्यीये दृश्यते इत्यत आहन खित्यादि। कल्पनमुद्दिश्य पञ्चविधाः कषायकल्पना इति यत् कल्पन तदुद्दिश्य नायं कषायः प्रतिषिध्यते, कषायो रस एव प्रतिषिध्यते। ननु तहि पञ्च कषाययोनयो मधुराम्लकटुतिक्तकषाया इति यदुक्तं तत्र च कषायरसयोनिश्च कल्कादिकषायोऽस्ति स च किं न प्रतिषिध्यते इत्यत आह—यः कषायकषाय इति। कषायरसयोनिर्यः कल्कः भृतो वा स्वरसो वा शीतो वा फाण्टो वा कषायः स कषायः कषायस्तरुणज्वरे स्तम्भिवादुक्तदोषस्तम्भादिव्यापत्
चक्रपाणिः-सम्प्रति 'कषाय'शब्दसामान्येन नवज्वरनिषिद्धकषायस्य महात्ययकारकस्य नवज्वरे प्रयोगे दोषमाह-स्तभ्यन्त इत्यादि। स्तभ्यन्त इति अविचलितधर्माणो भवन्ति। न विपच्यन्त इति चिरेणापि न सुखं पच्यन्ते। स्तम्भित्वादिति स्तम्भनस्वभावत्वात् ; उक्तं हि-"कषायः स्तम्भनः शीतः” इति । अयमों हारीतेऽप्युक्तः-"न कषायं प्रशंसन्ति नराणां तरुणे ज्वरे। कपायेणाकुलीभूता दोषा जेतु सुदुस्तराः ॥” इति। पूर्वं षड़ विरेचनशताश्रितीये पञ्चरसकृतेष्वपि स्वरसादिषु 'कषाय'शब्द उक्तः। तदिह यदि 'कषाय'शब्देन सामान्येन मधुरादिकृतानां स्वरसादीनां प्रतिषेधः स्यात् , तदा षडङ्गपानीयस्य पञ्चविधकल्पनायामवरोधनिवेशनीयस्य तथा यवागूसाधनार्थस्य च पाठेन तत्तह व्यस्य निषेधः स्यात्। येन षडङ्गस्य थवागूसाधनद्रव्यस्य च प्रयोगोऽत पञ्चविधकल्पनायामन्तर्भावनीयः। भेषजप्रयोगस्य पञ्चविधकल्पनार्थस्यान्तर्भावात् अतः सर्वकल्पनाकषायप्रतिषेधो मा स्यादित्याह-न स्वित्यादि। न तु कल्पनमुद्दिश्येति स्वरसकल्कशृतशीतफाण्टरूपकल्पनं लक्षीकृत्य। 'यः कषायः कषायः' इति
३१०
For Private and Personal Use Only