________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६८
चरक संहिता |
[ ज्वरचिकित्सितम्
न तु शमनीयं वा संशोधनीयं वा दशाहं यावत् आज्वरमृदूभावात् । ततो दशाहातीते नराम्ये सति शमनीयं संशोधनीयं वा कषायं पाययेदित्यथेः । सुश्रुतेऽपि एतदभिप्रायेणोक्तं “सप्तरात्रात् परं केचिन्मन्यन्ते देयमौषधम् । दशरात्रात् परं केचिद्दातव्यमिति निश्चिताः । पैत्तिके वा ज्वरे देयमल्पकालसमुत्थिते । अरिज्वरितस्यापि देयं स्याद् दोषपाकतः ॥” इति । यत्र तु " ह्यामदोषस्य भिषग यो जयति ज्वरम् । शोधनं शमनीयन्तु करोति विषमज्वरम् ॥” इति । यत् तु भिषेक ज्वरितमिति सर्व्वमेव पड़ऽतीते सति अर्थात् सप्तमेऽहनि गतेऽष्टाहे सामेऽस्तब्धे दोघे पाचनं निरामे शमनीयं कषायं स्वरसकल्कमृतशीतफाण्टान्यतमं पाययेदिति वाशब्दात् स्तब्धे सामे दोषे सति न पाचन न वा शमनीयं पाययेत् यथोक्तार्थेषु यवागूभिः तर्पणैश्चोपाचरेत् यावज्ज्वरमृदूभावादित्युक्तेः तदभिप्रायेणैव कश्चिदभियुक्त आह स्म “ सप्ताहात् परतोऽस्तब्धे सामे स्यात् पाचनं हितम् । निरामे शमनं स्तब्धे सामे नौषधमाचरेत् ॥” इति ।
;
1
लक्षणभूता यतश्च पेया यव प्रतिषिद्धा मयोत्थज्वरादौ तत्र तर्पणादिक्रमेणापि षड़हो ग्राह्यः । तेन प्रथम हे उत्सर्गतो लङ्घनादि पाचनं कर्त्तव्यमिति पेया षड़हे देयेति वचनमुच्यते । तथा हि सुश्रुते – “लङ्घनाम्बुयवागूभिर्यदा दोषो न पच्यते । तदा तं मुखवैरस्य तृष्णारोचकनाशनैः । कषायः पाञ्चनैर्हद्य वरघ्नः समुपाचरेत्" इत्युक्त्वा कषायपानकालनियमे प्रोक्तम्- 'सप्तरावात् परं केचित् मन्यन्ते देयमौषधम्" इत्यादि; ततश्च लङ्घनादिषडृहे ऽतिक्रान्ते सप्तराबाद भेषजदानं सुश्रुतेनास्थाप्याप्रतिषेधादनुमतमेव । तथा चरके "लङ्घनं स्वेदनम्" इत्यादिना तरुणज्वरे लङ्घनादि विहितम् । तरुणता ज्वरस्य सप्ताहमात्रं भवति यदुक्तं पुष्कलावते - “आसप्तरात्रं तरुणं ज्वरमाहुर्मनीषिणः । मध्यं द्वादशराखन्तु पुराणमत उत्तरम् ॥” इति ; सप्ताहादूर मसरु जबरे उत्सर्गतस्तावत् लङ्घनपेयादि न विहितमेव । श्वरकेणापि तथा हारीतेनापि लङ्घनाच्छोदकमुस्ता दिजलपानपेयाभिधानानन्तरमुक्तम् “एतां क्रियां प्रयुञ्जीत षड्रालात् सप्तमेऽहनि । पिबेत् कषायसंयोगान् ज्वरन्नान् सिद्धसाधितान् ॥” इति । तथा खरनादेनापि - "लङ्घितालसिं तस्माद् वामितम् वा ज्वरार्द्दितम् । तत्सात्मत्वादतस्तस्मिन्नादौ ज्वरमुपाचरेत् । यवागूभिर्यथादोषम्" इत्यादि । जतूकर्णेनापि यवाग्वादिक्रमञ्चाभिधायोक्तम् - " इति पाड़ालिकः प्रोको नवज्वरहरो विधिः । ततः परं पाचनीयं शमनं वा ज्वरे हितम् ॥” इति । तन्त्रान्तरे च यदेतत् सप्तमेऽहनि कषायपानविधानम्, तत् पड़हे विहितकषायपानेन समं ज्वरदिनारब्धत्वान्न विरोध इति मन्तव्यमिति, तस्माज्ज्वराहादारभ्य षड़हेऽतीते लध्वन्नप्रतिभोजिते कषायपानं तथा पढ़Sain यवागूपचार इति ज्वरे पेया कषायांश्चेत्यादय उत्सर्गविधयः, तेनैषां विद्याधनमपि भवतीति युक्तमेव ।
i
For Private and Personal Use Only