________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६२ चरक-संहिता। [ ज्वरचिकित्सितम्
यावज्ज्वरमृदभावात् षड्हं वा विचक्षणः। तस्याग्निर्दीप्यते ताभिः समिभिरिव पाक्कः ॥ .. ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपिकाः।
वातमूत्रपुरीषाणां विवन्धस्यानुलोमिकाः॥ .. .. .. स्वेदनाय द्रवोष्णत्वाद् द्रवत्वात् तृट्शमाय च।
आहारभावात् प्राणाय सरत्वाल्लाघवाय च ॥ वदन्ति। तदुभयमेवायुक्तं यावज्ज्वरमृदुभावादिति हात्तरवचनं न संगच्छते। कियन्तं कालं ताभिर्यवागूभिरुपाचरेदित्याकाङ्क्षायां हुक्तं यावज्ज्वरमृदूभावादित्यादि। ज्वरस्य यावत् कालं मृदुस्वं न भवति तावन्तं कालं प्रथम मन्दानौ मण्डस्ततः किश्चिदग्निबले वृद्ध पेया ततोऽग्निवले वृद्धे विलेपीति । यदि षष्ठाहे ज्वरस्य मृदुत्वं स्यात् तदा षड़ह वा यावत् विचक्षणो वैद्यस्ताभिः यवागूभिरुपाचरेत् । किमेवं करणे प्रयोजनमित्यत आह–तस्याग्निरित्यादि। तस्य सम्यगवमितस्य लजितस्य वा ज्वरितस्याग्निर्जाठराग्निस्ताभिर्मण्डपूर्वाभिः यथास्त्रौषधसिद्धाभियवागूभिः समिद्भिः पावको लौकिकाग्निरिव दीप्यते इत्यर्थः । यवागूभिरिति बहुवचनप्रयोगोऽपि संगच्छते, पूर्वव्याख्याने खनर्थः स्यादिति “सिक्थकै रहितो मण्डः पेया सिक्थसमन्विता। विलेपी बहुसिक्था स्याद् यवागूविरलद्रवा ॥” इति त्रिधा यवागूः। ननु कस्मात् ता जाठराग्निः दीपिका भवन्तीत्यत आह-ताश्चेत्यादि। भेषजसंयोगाद्धि यवागूनां लघुत्वं तेनाग्निदीपकत्वं वातादिविबन्धानुलोमखन्तु भेषजसंयोगादेव न तु लघुवात् । लघुलाचाग्निदीपनेनामिना वातादिविबन्धध्वंसेऽपि लघुगुणेनानुलोमीकरणायोगात् । यद्यपि मण्डो वातानुलोमन इत्युक्तं तत् पेयाद्यपेक्षया विशेषेण वातानुलोमनो मण्ड इत्यभिप्रायेण, न तु पेयादीनां वातानुलोमवप्रतिषेधाभिप्रायेण। - नन्वेवमन्यदप्यस्ति यत् तत् कथं नोपाचरेदित्यत आह-स्वेदनायेत्यादि । मण्डपूर्वाभिरिति मण्डप्रधानाभिः। तत्र प्रथमं मण्डं पीत्वा तदनु धनभागो योज्यः । यावज्वरमृदूभावादिति यावज्ज्वरस्य दोषपाकात् तीक्ष्णता निवर्तते। अतिज्वरे मृदूभावेऽपि षड़ह थावत् । अयञ्च षड़हः किं पेयादिनात् प्रभृति भवतु, आहोस्वित् ज्वरोत्पाददिनादिति पक्षद्वयमुत्तरत्र “ज्वरितं षड़हेऽतीते" इत्यस निर्लोचयिष्यामः। स्वेदनायेत्यादौ भवन्तीति शेषः । ज्वरसात्म्यत्वमभिधाय
For Private and Personal Use Only