________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६१
३ये अध्यायः चिकित्सितस्थानम्।
वमितं लछितं काले यवागूभिरुपाचरेत् । यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः॥
धातुस्था रसधातुस्थाश्च तस्माद् देहाद दुःख निर्हरणाः सात्यया द्रोगादिव्यापदरूपात्ययान्विताः। आमेभ्योऽपकेभ्यः फलेभ्यः स्वरसा इव दुःखनिहरणाः सात्ययाश्च ॥ ८५॥
गङ्गाधरः-लङ्घनवमनानन्तरं किं कर्त्तव्यमित्यत आह-वमितमित्यादि। उक्तावस्थायां वमितं लवितमित्युभयम् । वमनावस्थाभावे क्षयानिलादिज्वरितखाभावे च लवितं वा सम्यग्वमनलङ्घने कृतवन्तं ज्वरितं कालेऽन्नदानयोग्यकाले आदितः प्रथमतः क्रियान्तरमकृखा यथाखौषधसिद्धाभिः–यस्य यस्य ज्वरस्य यदयदौषधं वाच्यं यस्य ज्वरस्य च यद् यद् भेषजं कषायादिविधौ वाच्यं तत्र तत्र ज्वरे तैस्तैरौषधैरर्द्धभृतेन तोयेन सिद्धाभिः कृताभिने खौषधं विना केवलतण्डुलकृताभिर्मण्डपूर्वाभिर्मण्डपेयाविलेपीतिक्रमयुक्ताभिर्यवाभिः दोषाल्पत्वेन द्वित्रिदिनलडनेन सम्यगलचितः स्यात् तदा मण्डादिक्रमेण उपाचरेत् । यद् यत् स्वमिति वीप्सायां खमनतिक्रम्येति अनतिक्रमे वाव्ययीभावे यथास्वमिति। कश्चित् तु मण्डः पूव्वः प्रधानोऽच्छतया यासां ताभिर्यवाभिरिति व्याख्याय बहुद्रवत्वेन मण्डप्राधान्याद् यवागूशब्देन पेयामाह ; परे तु मण्डः पूर्वः प्रथममादौ पेयो यासां ताभिर्यवाभिरिति व्याख्याय अभ्यवहारकाले पूर्व स्वच्छभागं पीला पश्चाद घनभागं खाददिति स्स्वायाः प्रबलाच। धातुस्था इति धातुषु अत्यन्तानुप्रवेशव्यवस्थिताः। न सुखन निर्दियन्ते इति असुनिहराः ; किंवा असून प्राणान् निर्हरन्तीति असुनिहराः। अवार्थे फलानामित्यादिना दृष्टान्तमाह-आमानां फलानां यथा स्वरसा निर्हरणे सात्यया भवन्ति, तथा यथोक्ता अपि दोषा इत्यर्थः, सात्यया इति अत्ययदाः ॥ ८५॥ ___ चक्रपाणिः--वमनलङ्घनयोरनन्तरं यद् विधेयं तदाह-वमितमित्यादि। वमितं लहित. मिति अवस्थावशात् कदाचिद वमितं पदाचित् लङ्कितं कदाचिच्च वमितलचितम् ; वमनानन्तरं हि यदा सम्यगविशुद्धिर्न भूता, तदा तदहर्लङ्घनमपि क्रियते। काल इत्यन्नदानयोग्ये काले। यथास्वौषधसिद्धाभिरिति यथास्वौषधं यस्यां यवाग्वां यद्भेषजं पिप्पलीनागरादि वक्तव्यम् तत्सिद्धाभिः ; किंवा यस्मिंश्च ज्वरे यद् भेषजं पाचनञ्च वक्तव्यं तत्सिद्धाभिः। उक्तं हि सुश्रते"भन्मकाले हिता पेया यथास्वं पाचनैः कृता" इति। यद् यत् स्वं यथास्वमिति वीप्सायामव्ययीभावः ।
३०९
For Private and Personal Use Only