________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६०
चरक-संहिता। (ज्वरचिकित्सितम् कफप्रधानानुक्लिष्टान् दोषानामाशयस्थितान् । बुद्धवा ज्वरकरान् काले वम्यानां वमनहरेत् ॥ अनुपस्थितदोषाणां वमनं तरुणे ज्वरे। हृद्रोगं श्वासमानाहं मोहश्च कुरुते भृशम् ॥ सर्वदेहानुगाः सामा धातुस्था दुर्बिनिहराः छ ।
दोषाः फलेभ्य आमेभ्यः स्वरसा इव सात्ययाः ॥८५ ॥ गङ्गाधरः--लङ्घनविधौ संशोधनमपि लङ्घनविशेष इत्यतो ज्वरे वमनविधिमाह-कफप्रधानान् इत्यादि। कफः प्रधानो येषु दोषेषु तान्। उक्लिष्टान् हृदयामाशयाभ्यामूर्द्ध गच्छन्तः क्लिश्यन्ति उपतिष्ठन्ति हल्लासवेगेन ये ते तान्, वहिर्गमनोन्मुखान्। आमाशयस्थितान् न तु कण्ठमात्रस्थितान् ज्वरकरान् दोषानेवं बुद्धातम्यानां वमनार्हाणां न तु चिकित्साप्राभृतीयोक्तवमनप्रतिषिद्धानां गर्भिण्यादीनाम्। काले वलादिसद्भावादुत् क्लेशकाले, न तु दौर्बल्यादौ। वमनैर्वमनयोगः कल्पस्थानोक्त रहरैहरेदवामयेत् भिषगिति शेपः। __उक्तावस्थां विना बमने व्यापत्तिमाह-अनुपस्थितदोषाणामिति । अनुपस्थिता अनुक्लिष्टा दोषा येषां पुंसां तेषाम् । एतेनाकफप्रधाना काला वम्यानां वमनप्रतिषेधोऽपि व्याख्यातो भवति। ननु कस्मादनुपस्थितदोषाणां ज्वरे बमनं न विहितमित्यत आह हृद्रोगमित्यादि। ननु कस्मादनुपस्थितदोषाणां वमनानवज्वरे हृद्रोगादयः स्युरित्यत आहसर्चदेहानुगा इत्यादि। प्रकरणान्नवज्वरे दोषाः क्रुद्धा यस्मात् सर्वदेहानुगा
चक्रपाणिः--अविशेषण तरुणातरुणज्वरेऽवस्थाविधेयं वमनमाह-कफप्रधानानित्यादि। फफः प्रधानो येषां ते कफप्रधानाः। उतूक्लिष्टानिति हृलासादिना वहिर्गमनोन्मुखान् । आमाशयस्थितानित्यनेन सर्वशरीरं परित्यज्यामाशयगमनं दर्शयति । ज्वरकरानित्यनेन ज्वरकरान् हि दोषानेवंविधानेव नवज्वरे तु बमनहरेत्. नान्यथेति दर्शयति । काल इति यथोक्तायामवस्थायाम् । वमनैरिति बहुवचनैः प्रकृत्याद्यपेक्षया बहूनां वमनप्रयोगाणां प्रयोगं दर्शयति । वम्यानामित्यनेन अवम्यगर्भिण्यादिषु वमनं: निषेधयति । अत्र च वमने स्वयमेवोक्लिष्टत्वाद् दोषस्य दोषोत्क्लेशप्रयोजनको स्नेहस्वेदी न क्रियेते अल्पो वा क्रियेते। उक्तावस्थाव्यतिरेकेण वमने दोषमाहअनुपस्थितेत्यादि। सर्चदेहानुगा इति सूक्ष्मशिरात्बगाद्यनुगताः। सामा इति सामत्वेन * असुनिहरा इति वा पाठः ।
For Private and Personal Use Only