________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४५६
३य अध्यायः] चिकित्सितस्थानम्। मुस्तपर्पटकोशीर-चन्दनोदीच्यनागरैः। तशीतं जलं दद्यात् पिपासावरशान्तये ॥४॥
देयं स्याद दोषपाकतः। भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम । शोधनं शमनीयन्तु करोति विषमज्वरम्” इति। तेन शोधनसंशमनमौषधं मुख्यभेषजं तरुणवरे निषिद्धमिति ॥८३॥
गङ्गाधरः-ननु कैस्तिक्तकरित्यत आह–मुस्तेत्यादि। चन्दनति रक्तचन्दनकाप्ठं । आहुश्च वृद्धाः। उक्त चन्दनशब्दे तु गृह्यते रक्तचन्दनम् । लवणे सैन्धवं विद्यात् मूत्रे गोमूत्रमिष्यते। पयःसर्पिःप्रयोगे च गव्यमेव विधीयते। शकद्रसे गोमयरसः सिद्धार्थ श्वेतसर्षपः” । इति। तथा सारः स्यात् खदिरादीनां निम्बादीनां खचस्तथा । फलन्तु दाडिमादीनां पटोलादेश्छदस्तथा। फलप्रधानक्षाणां फलं सव्वेत्र गृह्यते। पुष्पप्रधाने पुष्पं स्यादुत्पले नीलमुत्पलम् । अङ्गेऽप्यनुक्ते घिहितन्तु मलं कालेऽप्यनुक्ते दिवसस्य पूर्वम् । द्रवेऽप्यनुक्ते जलमेव देयं भागेऽप्यनुक्ते समता विधेया।” इति। उदीच्यं वालकम् । नागरं शुण्ठी। तत् तु तिक्तकं यद्यपि न भवति तथाप्यत्रामाशयदुष्टिकफवह्निमान्यज्वराणां हितवाद विहितम् । तीशटाचाय्यस्तु शुण्ठीमपठन् पद्मकाष्ठं पठति। एतानि द्रव्याणि नूतनानि गृह्णीयादुक्तं हि “द्रव्याण्यभिनवान्याहुः प्रशस्तानि क्रियाविधौ। ऋते गुडघृतक्षौद्रधान्यकृष्णाविडङ्गतः” इति। शृतशीतमिति अद्धावशिष्ट पकमत्र शृतमुच्यते जलमित्युक्त्या जलसंज्ञखात्। शीतमिति पूर्व पक्वं परं तु वाताहतं कालेन शीतीभूतमिति शृतशीतम् । तदपि दिवाभृतं दिवैव दयं रात्रिभृतं तद्रात्रावेव देयम्, नान्यत्र गुरुखात्। तदुक्तं "दिवाशृतन्तु यत्तोयं रात्रौ तद्गुरुतां व्रजेत् । रात्री शृतं दिवा चापि गुरुत्वमधिगच्छति” इति। पिपासावरयोः शान्तये इत्यर्थः ॥ ८४॥
चक्रपाणिः-मुस्तेत्यादिः पानीयसाधकः षड़ङ्गप्रयोगः। अत्र शुण्ठी अतिक्ता च आमाशयदुष्टिकारकज्वरहितत्वाद् विहिता। अत्र 'शृतशीतं जलं दद्यात्' इति जलसंस्कारते क्वाथपरिभाषया न क्वाथकरणम् , किन्तु संस्कारकपरिभाषया। परिभाषा च स्वतन्त्रानुक्तापि वृद्धव्यवहारसिद्धा प्रमाणीभूतैव। सा च “यदप्सु शृतशीतासु पड़ङ्गादि प्रयुज्यते। कर्षमानं ततो दत्त्वा साधयेत् प्रास्यिकेऽम्भसि । अर्द्धशृतं प्रयोक्तव्यं पाने पेयादिसंविधौ” इति, परिभाषाश्च व्यक्त एव ॥८४॥
For Private and Personal Use Only