SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः चिकित्सितस्थानम्। २४६३ ज्वरनो ज्वरसात्म्यत्वात् तस्मात् पूर्व समाचरेत् । यवागूभिवरान् विद्वानृते मद्यसमुत्थितात् ॥८६॥ द्रवोष्णवात् स्वेदनाय यवाग्यो भवन्ति, यद् यद् द्रव्यं द्रवमुष्णञ्च तत्तत् सर्च द्रवोष्णनाभ्यां स्रोतोऽनुपविश्य तद्गतदोषं विच्छेद्य उष्णत्वेन स्वेदं प्रवर्तयतीति शापितम्। द्रवखाच्च तृटशमाय यवाखो भवन्ति। यद् यद् द्रव्यं द्रवं तत् सर्वमाप्यखात् तैजसी तृष्णां शमयति इति शापितम्। आहारभावादिति । यो यो वैध आहाररूपः स प्राणकर इति शापितम्। प्राणे बलं प्राणानां सत्ता च । सरखादिति । यद् यद् द्रव्यं सरं तत्तच्छरीरस्य लाघवकरमिति। ज्वरना इति ज्वरव्याधिहारिका ज्वरसात्म्यखात् ज्वरे सति ज्वरितस्यात्मना सहात्मीभावात् ज्वरसात्म्यत्वञ्च यवागूनां प्रभावात् । तस्मादिति । ज्वरे जाते जाठराग्निमन्दस्तत्र दीपनमौषधं विहितम्। वातमूत्रपुरीषाणाश्च विबन्धः स्यात् तत्र तेषामानुलोमिकमौषधं हितम्। तथा प्रायेण स्रोतोरोधाद घाप्रवृत्तिस्तत्र स्वेदकरमौषधं युज्यते। पायो ज्वरे जाते तृष्णा भवति तत्र तृष्णाहरमौषधं युक्तम् । प्रथमतो रससत्त्वेन क्षुद्रोधाभावाल्लङ्घनेन क्षुधायां जातायाम् आहारं विनापाणक्षयादाहारोऽपि युज्यते । शुद्धोधनेऽपि ज्वरसत्त्वाद्देहस्य गौरवं वर्त्तते तत्र सरद्रव्यं हितं भवति। ज्वरस्य च प्रशमनं प्रयोजनं तन्नाशार्थ जरनश्च भेषजं विधीयते। एतत्सव्वरूपाश्च यवाग्वः स्युस्तस्मादग्निदीपकादिभावाज्ज्वरे वमितं लवितं पुमांसं पूर्व विद्वान् भिषक् यवागूभिः समाचरेचिकित्सेदित्यर्थः । ननु किं सर्वान् नवज्वरान यवाग्वोघ्नन्ति ? समाचरेच्च किं यवागूभिः सर्वेष्वेव ज्वरेषु ? इत्यत आह-ज्वरान् मद्यसमुत्थिताहतें इति । बहुवचनेन निर्देशाद्धि यवाग्वास्वैविध्यं ज्ञापितम् । तद् यथा-द्रवसिक्थसमन्विता यवागूः, सा सिक्थकहीनो मण्डः, सिक्थकयुक्ता पेया, बहुसिक्थकविरलद्रवा विलेपीति त्रिधा, न चातिरिक्तास्ताभ्यो यवाग्वः । सुश्रुतेऽपि “यवागूमुचिताद्भक्ताच्चतुर्भागकृतां वदेत् ॥” इति। अत्र भक्तोचिततण्डुलापेक्षया चतुथभागकभागरूपक्षद्रीकृततण्डुलकृतामित्यर्थः। एतत्तिविधयवागूविधानार्थं क्षुद्र यवागूनाम् अविषयं ज्वरितमाह-ऋत इति। ऋते मद्यसमुत्थितादिति मद्यकारणे ज्वरे निषेधः । * पेयामेवादितः इति पाठो दृश्यते क्वचित् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy