SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir :२४५४ . चरक-संहिता। [ ज्वरचिकित्सितम् ज्वरे लइनमेवादावुपदिष्टमृते ज्वरात् । क्षयानिलभयक्रोध-कामशोकश्रमोद्भवात् ॥ स वज्यस्तरुणे ज्वरे” इति। तेन कषायकपायवर्जनेन कषायरसस्यापि वजनमुक्तं भवति ।। ८०॥ : गङ्गाधरः-ननु तर्हि - किं मधुरकषायाम्लकषायक्टकषायतिक्तकषायाणां न प्रतिषेधो नवज्वरे स्यादिति चेत् ? उच्यते-ज्वरे लङ्घनमित्यादि। ज्वरे इति सप्तमी विषये, विषयश्चात्र साध्याख्यश्वोद्देश्याख्यश्च, तेन ज्वरे जाते सत्यादौ प्रथमतः लङ्घनमेवोपदिष्टं ब्रह्मादिभिः वैदैाने बन्यद भेषजं स्वरसकषायादिकं विहितम् । लङ्घनमत्र दशविधेषु लङ्घनेषु मध्ये वमनादीनां चतुणों संशोधनानां पाचनानाञ्च कालविशेषे विधानस्य वक्ष्यमाणवात् । मारुतव्यायामयोवेज्जनात् · पिपासायां जलविधानाचातपस्य पित्तविरुद्धखाच्च पारिशेष्यादनशनमेव - बोध्यम् । ननु किं सन्वेष्वेव ज्वरेषु लङ्घनमेवोपदिष्टमित्यत आह-ऋते ज्वरादित्यादि। क्षयाद्धातुक्षयात् कुपित एवानिलः क्षयानिलस्तस्मादुद्भ ताज्जराहते एवं भयादुरद्भ ताच, न तु क्षयोद्भ तादनिलोद्भ तादित्यादिज्वरादृते । जीर्णज्वरे पुनः सामे सामे वातेऽपि लङ्घनमिति तन्त्रान्तरवचनेन वातजतरुण.ज्वरेऽपि लङ्घनविधानादिति कश्चित्। सुश्रुते तु-"न लङ्घयेन्मारुतजे क्षयजे .मानसे तथा” इति वचनात् क्षयोद्भवादनिलोद्भवादित्यादिज्वरादृते इत्येवार्थः । अत्रेदश्च वक्तव्यं “तत् तु मारुतक्षुत्तृष्णामुख-शोषभ्रमान्विते । कार्य न पाले वृद्ध वा न गर्भिण्यां न दुब्बेले” इति कश्चित् । एषु हि लङ्घनं दोषषलापेक्षया सम्यगलङ्घनलक्षणोदयाभावेन लङ्घनं विहितमित्यभिप्रायेणाचाय्यो न मुक्तकण्ठेन तद्वचनमवोचत्। लङ्घन हणीयाध्याये च “एत एव यथोद्दिष्टा येषामल्पबला .... चक्रपाणिः-ज्वर इत्यादौ 'लङ्घन'शब्देनेहानशनं विवक्षतिम्। "चतुष्प्रकारा संशुद्धिः" इत्यादिना लङ्घनवृहणीये दशविधमेव लङ्घनमुक्तम्, तथाप तेषामिहावस्थाविशेषेण विनियोगात लङ्घनमेवेति नियमोऽपवादविषयं त्यक्त्वा समुद्रीयमानावधारणे ज्ञेयः ; यथा-"नरश्च नारायणमेव योभौ सुतौ तौ जनयाम्बभूव" इत्यत ; तेन अवस्थायां वमनमपि भवति वक्ष्यमाणम् । यत तु लखनवृहणीये कफपित्तज्वरच्छईवादषु मध्ये ज्वरं पटित्वा उक्तम्-“पाचनस्तान् भिषक् प्राज्ञः प्रायेणादावुपाचरेत्" इति, तल भेषजप्रयोगस्यादौ पाचनं कर्त्तव्यमिति ब्रूते न उवरादौ, तेन इहादौ लद्धनाभिधानं न विरुध्यते। हारीते तु “पित्तश्लेष्मविशुद्धयर्थ कुर्याद वमनमादितः" इति यदुक्तम्, तत् “कफप्रधानान्" इत्यादिवक्ष्यमाणावस्थायां ज्ञेयम् ; 'क्षय'शब्देन धातुक्षयकृतं अबरं, किंवा राजयक्ष्मज्वरं गृह्णाति । 'अनिल'शब्देन निरामानिलग्रहणम्, किंवा 'क्षयानिल' For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy