SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इय अध्यायः चिकित्सितस्थानम्। २४५३ नववरे दिवास्वप्न-स्नानाभ्यङ्गानमैथुनम् । क्रोधप्रवातव्यायाम-कषायांश्च विवर्जयेत् ॥८॥ उक्ता तस्माद रसामतापायेनैव दोषामतापाय इत्यनुभवात् युगपदेव रसदोषयोः सामता निरामता च तुल्यकारणरिति । ननु ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः। मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम् इति तन्त्रान्तरे खामनिरामव्यतिरिक्ता पच्यमानावस्था प्रोक्ता, सा तु कथं नोक्ता ? उच्यते, आमनिरामयोरन्तरालावस्था व पच्यमानावस्था निरामवस्य पागवस्थैव, यथा तण्डलं पचतीति तण्डुलपाकारम्भे तण्डलस्त्वाम एव मध्यावस्थायां पच्यमानावस्था प्रतिनियतक्रियाभावा चात्र नोक्ता। सुश्रुतेऽपि “मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च। पर्कदोषं विजानीयाज ज्वरे देयं तदौषधम्। दोषप्रकृतिवैकृत्यादकेषां पक्कलक्षणम् । हृदयोद्वेष्टनं तन्द्रा लालास्र तिररोचकः। दोषाप्रवृत्तिरालस्यं विबन्धो बहुमूत्रता। गुरूदरखमस्वेदो न पक्तिः शकृतोऽरतिः। खापः . स्तम्भो गुरुखञ्च गात्राणां वह्निमाईवम् । मुखस्याशुद्धता ग्लानिः प्रसङ्गी बलवान् ज्वरः। लिङ्गैरेभिविजानीयाज्ज्वरमामं विचक्षणः ॥” इति ॥ ७९ ॥ .. ___ गङ्गाधरः-लिङ्गमामस्य जीर्णस्येत्यस्य प्रश्नस्योत्तरमुक्त्वा औषधं सक्रियाक्रमं वक्तमहंसीति प्रश्नोत्तरमाह। तत्रादौ “सङ्क्ष पतः क्रियायोगो निदानपरिवज्जनम्” इति ज्ञापनाय ज्वरनिदानवजनरूपमौषधमाह-नवज्वरे इत्यादि। नवज्वरे निरामलक्षणानुदये ज्वरे दिवास्वमञ्च स्नानञ्चाभ्यङ्गश्चान्नश्च मैथुनश्च क्रोधश्च प्रख्यातं प्रसिद्धं वातश्च न तु कृत्रिमवातञ्च व्यायामश्च कषायश्च रसमेव वर्जयेत्, न तु स्वरसादिपश्चकषायं वर्जयेत् । वक्ष्यते ह्यत्रैव “स्तभ्यन्ते न विपच्यन्ते कुर्वन्ति विषमज्वरम्। दोषा बद्धाः कषायेण स्तम्भिखात् तरुणे ज्वरे। न तु कल्पनमुद्दिश्य कषायः प्रतिषिध्यते। यः कषायः कषायः स्यात् चक्रपाणिः--'सौपधञ्च क्रियाक्रमम्” इत्यनेन यद्यप्यौषधमादावुक्तं, तथापि तस्य क्रियाक्रमविशेषणतया औषधमतिक्रम्य 'नवज्वरे' इत्यादिना क्रियाक्रमं ब्रूते। तत्राप्यहितस्यैव प्रथम निषेधः ; अन्नशब्देन गुर्वन्नमभिधत्ते। हारीतेन हि-"नवज्वरे व्यायामादि प्रत्येक दोषकोपणम्। गुर्वन्नभोजनञ्चापि विष्टम्भि दोषकोपणम्" इत्युक्तम् । कषायांश्चेति जाती बहुवचनम् ; तेन कषायं वर्जयेदित्यर्थः ; उक्तं ह्यत्र जतूकणन,-"कषायरसगुरूष्णस्निग्धान्नस्नानाभ्यङ्गान् नवज्वरे वर्जयेत्” इति ॥ ८ ॥ ३०८ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy