SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २४५२ चरक संहिता | क्षुत् क्षामता लघुत्वञ्च गात्राणां ज्वरमार्दवम् । दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम् ॥ ७६ ॥ Acharya Shri Kailassagarsuri Gyanmandir [ ज्वरचिकित्सितम् गङ्गाधरः- आमज्वरस्य लिङ्गमुक्त्वा जीर्णस्य ज्वरस्य लिङ्गं वक्तुमईसीति प्रश्नोत्तरमाह- क्षुत् क्षामतेत्यादि । श्रुत्वा । क्षामता क्षीणत्वं गात्राणाम् लघुत्वम्। ज्वरमाद्दवं ज्वरस्याल्पता । दोषमवृत्तिरिति वह्निप्रबलतायां सत्यां दोषविबन्धच्छेदात् श्लेष्मपितादीनां मलानामूर्द्धाधः प्रवर्त्तनम् । अष्टाहोऽपि लिङ्गमेकं क्षधाद्यनुत्पत्तावप्यष्टाहो निरामत्वं ज्ञापयति क्षुधादुत्पत्तौ पुनरष्टाहं विनापि निरामयमिति ज्ञापनार्थं क्षुधादिलिङ्गानि चाष्टाहकालञ्च लिङ्गत्वेनोपदिदेशेति । एतेनाष्टाहकालस्य निरामलिङ्गवचनेन सप्तरात्रं तरुणं ज्वरमाहुर्मनीषिण इति चानुमतम् । अर्व्वागपि सप्ताहादृर्द्ध' ञ्च तरुणं यावत् क्षुत्क्षामतादि न स्यादिति चक्षूत्क्षामतादिवचनेन ख्यापयता दूषितञ्च उक्तञ्चान्यत्र । “सप्ताहेनैव पच्यन्ते सप्तधातुगता मलाः । निरामश्चाप्यतः मोक्तो ज्वरः प्रायोऽष्टमेऽहनि " इति प्राय ॥ इत्यनेन रसाधिक्ये ततः परतोऽपि सामता वर्त्तते इत्युक्तम् । कश्चित्तु दोषामताष्टाहकालमाप्तप्रापैति रसामता तु ततोऽपूद्ध मनुवर्त्तते इति शापनार्थमष्टाह इति लिङ्गमेकं क्षत्क्षामतादीनि च लक्षणानि दर्शयामासेत्याह । तत्र ब्रमः किं तावदोषस्य सामत्वं किश्च रसस्येति “उष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम् । दुष्टमामाशयगतं रसमामं प्रचक्षते । आमेन तेन संयुक्ता दोषा दूष्याश्च दूषिताः । सामा इत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः” इति चेत् तर्हि रसामतापायमन्तरेण कथं दोषस्य निरामत्वं सम्पद्यते दोषामता ह्यामरसान्वयात् For Private and Personal Use Only • चक्रपाणिः - क्षुत्क्षामतेत्यादिना निरामज्वरलक्षणमाह । अव च क्षुदादयो दोषपाकाद भवन्तो विनाप्याहं निरामदोषारब्धज्वरलक्षणं भवति । अष्टाहस्तु क्षुदादीन् विना दोषापाके सत्यपि भेषजदानयोग्यां ज्वरस्य व्याधेर्निरामतां ब्रूते, अत एव पाचनं शमनीयं वा कपायं पाययेत् तु नम्" इति विकल्पद्वयेन । यदाष्टाहक्षुधादिदोषपाकलक्षणानुदयः, तदा दोषपाकार्थ पाचनीयं देयम्, अथ क्षुधादिसमुदयोऽपि जातः, तदा शमनीयं देयम् सर्व्वथा निरामस्य ज्वरस्य एतामेव सर्वथानिरामतामुपदिशति । खरनादेनोक्तम्- यत्-- " न च निःसप्ततैवैका निरामज्वरलक्षणम् । चिरादपि हि परयन्ते सन्निपातज्वरे मलाः । सप्तरात्बातिवृद्धिञ्च द्यामतादिस्वलक्षणम् । तस्मादेतद्द्द्वयं दृष्ट्वा निराम ज्वरमादिशेत् ॥” इति । अष्टाहादव्यांग दोषपाकजनितक्षुदादिदशनान्निग़मता सुश्रुतेनाष्टा हा अर्धा भेषजदानं दर्शयता प्रतिपादिता; यदुक्तम् - "अर्वागपि च देयं स्यात् भेषजं दोष पाकतः” इति तस्मात् क्षुदादयोऽष्ठाहश्च लक्षणं यथोक्तन्यायाज् ज्ञयम् ॥ ७९ ॥ ;
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy