________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य मण्यायः
चिकित्सितस्थानम् ।
२०४७ प्रयोगन्त्वभिचारस्य दृष्टा शापस्य चैव हि । स्वयं श्रुत्वानुमानेन लक्ष्यते प्रशमेन च ॥ वैविध्यादभिचारस्य शापस्य च तदात्मके। यथाकर्मप्रयोगेण लक्षणं स्यात् पृथगविधम् ॥ ७१ ॥ ध्यानं निश्वासबहुलं लिङ्ग कामज्वरे स्मृतम् । शोकजे वाष्पबहुलं त्रासप्रायं भयज्वरे ॥ क्रोधजे बहुसंरम्भं भूतावेशे त्वमानुषम् । मूर्छामोहमदग्लानि-भूयिष्ठं विषसम्भवे ॥७२॥ केषाञ्चिदेषां लिङ्गानां सन्तापो जायते पुरः।
पश्चात् तुल्यन्तु केषाञ्चिदेषु कामज्वरादिषु ॥७३ ॥ , ग्रङ्गाधरः-ननु कथमाभिचारिकमाभिशापिकं वा लक्षयेदित्यत आहप्रयोगमित्यादि। अभिचारस्य प्रयोगं दृष्ट्वा अभिशापप्य च तथात्वं श्रुखा स्वयं वानुमानेन वा प्रशमने च लक्ष्यते । तर्हि किं तुल्यलक्षणमनयोः स्यादित्यत आह-वैविध्यादित्यादि। अभिचारस्य वैविध्यात् विविधखात् अभिशापस्य च वैविध्यात तदात्मके अभिचारात्मके ज्वरेऽभिशापात्मके च ज्वरे यथाकर्मप्रयोमेण यथाभिचारकर्मप्रयोगः क्रियते यथाचाभिशापप्रयोगः क्रियते, तथैव लक्षणं स्यादिति पृथग्विधं लक्षणं स्यात् । तस्माल्लक्षणमनुगम्योपदेष्टुं न शक्यते ॥७॥
गङ्गाधरः-ननु कामादिजेषु ज्वरेषु किं किं लक्षणं भवतीत्यत आह-ध्यानमित्यादि । ध्यानं चिन्ता निश्वासबाहुल्यश्च स्यात् । शोकजे तु वाष्पबहुलं लक्षणं स्यात्, वाष्पः शोकजास्रपातः। भयज्वरे त्रासबहुलं भयबहुलम् । क्रांधजे ज्वरे बहुसंरम्भं लक्षणं, संरम्भस्वारभटी। भूतावेशज्वरे तु अमानुषं मनुष्यचेष्टाकृतिविपरीतं तत्तद्भ तलक्षणं भवति। विषवृक्षानिलस्पर्शादिसम्भवे ज्वरे तु मूर्छादिभूयिष्ठं लक्षणं भवति। मूर्छा इन्द्रियमोहः। मोहो हीन्द्रियमनोमोहस्तेन व्यस्तत एते द्वे लक्षणे भवतो न तु युगपदिति ॥७२॥ . .
गङ्गाधरः-एषां लिङ्गानां प्रापश्चाद्भाविखनियममाह-केषाश्चिदित्यादि। मन्तोषचतपःशमादिसिदाः। 'समिपातज्वरस्योक्तम्' इत्यादिग्रन्थमत्र काश्मीराः पठन्ति, सब नातिप्रसिदः ॥ ७०-७३ ॥
For Private and Personal Use Only