________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४८
चरक-संहिता। [ज्वरचिकिस्सितम् कामादिजानामुदिष्टं ज्वराणां यद विशेषणम् । कामादिजानां रोगाणामन्येषामपि तत् स्मृतम् ॥७४॥ मनस्यभिद्रुते पूर्व कामादर्न तथा बलम् । ज्वरः प्राप्नोति कामाद्यमनो ® यावन्न दुष्यति ॥ ७५ ॥ ते पूर्व केवलाः पश्चानिजैयामिश्रलक्षणाः। हेत्वौषधविशिष्टाश्च भवन्त्यागन्तवो ज्वराः ॥७६ ॥
एषु कामादिज्वरषु एषां लिङ्गानां ध्यानादीनां पुरोऽग्रे सन्तापो जायते। पश्चादिति। केषाश्चित् पुंसां ध्यानादेः पश्चात् सन्तापो जायते। केषाश्चित् पुंसां तुल्यं युगपदेव ध्यानादिः सन्तापश्च जायते ॥७३॥
गङ्गाधरः-प्रसङ्गात् कामादिजानामन्येषां रोगाणामपि विशेषमाहकामादिजानामित्यादि। कामादिज्वराणां ध्याननिश्वासबहुलादि यद् यद् विशेषणम् उद्दिष्ट विशेष उक्तः, कामादिजानामन्येषामपि रोगाणां तदेव ध्यानादिविशेषणं विशेषः स्मृतम् ॥७४॥
गङ्गाधरः-ननु कामादयश्च पुंसां प्रायो दृश्यन्ते न कथं ज्वरः स्यादिति चेन, सम्पाप्तिं विना ज्वरानुत्पत्तः। ननु तर्हि किं कामादिषु जातेषु कस्मात् सम्माप्तिने भवतीत्यत आह--मनस्यभीत्यादि। पूर्व कामादाः अभिद्रुते चश्चलीकृते मनसि नरस्य ज्वरो न जायते, स खलु तथा न तावत् बलं मामोति, यावत् कामादामनो न दुष्यति। यावच्च कामादामनो न दुष्यति तावच्च ज्वर सम्माप्तिकारणञ्च कामादिभ्यो न जायते, यदा मनो दुष्यति तदा कामादिजा आगन्तवो ज्वराः स्युः॥७५॥
गङ्गाधरः-ननु यदा मनो दुष्यति तदा किं नागन्तुजा इत्यत आह-ते पूर्वमित्यादि। ते ज्वरा मनोदूषणात् पूर्व केवलाः शुद्धकामादिमा आगन्तवो ज्वराः, पश्चात् मनोदूषणानन्तरं ते आगन्तवो ज्वराः, निजैः कामाद वायुः शोकाद् वायुः भयाद् वायुः क्रोधात् पित्तं प्रकोपमापद्यते, तत्र तत्र
.. चक्रपाणिः-अ तोर्निजाद भेदकं धर्ममाह-ते पूर्वमित्यादि। केवला इति निजदोष
- मनःस्थाने देह इति क्वचित् पाठः ।
For Private and Personal Use Only