________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४६
चरक-संहिता। ज्वरचिकित्सितम् विषवृक्षानिलस्पर्शात् तथान्यविषसम्भवैः। अभिषक्तस्य चाप्याहु रमेकेऽभिषङ्गाजम् । चिकित्सया विषघ्न्यैव स शमं लभते ज्वरः ® ॥६६॥ अभिचाराभिशापाभ्यां सिद्धानां यः प्रवर्तते । सन्निपातज्वरो घोरः स विज्ञ यः सुदुःसहः॥ सन्निपातज्वरस्योक्तं लिङ्गं यत् तस्य तत् स्मृतम् । चित्तेन्द्रियशरीराणामारीयोऽन्याश्च नैकशः॥७॥ गङ्गाधरः--नन्वेतावन्मात्रं कामशोकभयक्रोधभूतैरभिषक्तस्य ज्वरमेवाभि. षङ्गज्वरमिच्छन्ति किंवान्यमित्यत आह–विषेत्यादि। विषक्षानिलस्पर्शाद यो ज्वरस्तथान्यैश्चम्पकाद्योषधिगन्धाद्य स्तथा विषसम्भवैवस्तुभिरभिषक्तस्य यो ज्वरस्तमपि ज्वरमभिषङ्गजमेके भिषजः आहुः । अयश्चाप्रतिषिद्धवादनुमत एव। मुश्रुते युक्तं “श्यावास्यता विषकृते दाहातीसारहृद्ग्रहाः। अभक्तरुक् पिपासा च तोदो मूर्छा बलक्षयः । ओषधीगन्धजे मूर्छा शिरोरुगवमथुस्तथा।” इति मतमेतत् स्वीकृत्यैवाह-चिकित्सयेत्यादि। अत्रायं भावः-तत्तद्विधज्वरचिकित्सया नरस्य स तत्तद्विषादिज्वरः शमं लभते यद्यवं तदा तत्तद्विषादिलिङ्गमेव तत्तज्ज्वरो न तु पृथक् ज्वररोग उच्यते इति चेत् तन्न, मूर्छामोहमदग्लानि-भूयिष्ठं विषसम्भवे इति वक्ष्यमाणलक्षणस्यासङ्गतेः ॥ ६९ ॥ : गङ्गाधरः-अभिचाराभिशापजौ ज्वरावाह-अभिचारेत्यादि। सिद्धानां गुरुवृद्धसिद्धर्षीणामभिचारादभिशापाद्वा यो ज्वरः प्रवर्तते स सनिपातः त्रिदोषजो घोरो ज्वरः सुदुःसहो वियः। नन्वेतयोः किं लक्षणमित्यत आह-सन्निपातज्वरस्येति। ननु तहिं सन्निपातज्वरादनयोः को भेद इत्यत आह-चित्तेत्यादि । चित्तेन्द्रियशरीराणामन्याश्चातयोऽनेकशो भवन्ति ॥७०॥ दोषलक्षणानि भूतज्वरे भवन्ति । अत्र काश्मीराः विषवृक्षानिलस्पर्शादित्यादिग्रन्थं विषज्वराभिधायकं पठन्ति । तेन विषजोऽप्यभिषङ्गज एव प्रविशति ; ये तु न पठन्ति, तन्मतेऽप्यभिषङ्गज एव विषौषधिगन्धजस्याप्यवरोधः ; अन्ये तु विषजं विषजनितपित्तकृतत्वेन दोषज एव क्षिपन्ति ॥६८६९॥
चक्रपाणि:-अभिचारो हिंसार्थाथर्वमन्वहोमादिः। अभिशापो अभिशपनमेव । सिद्धा * प्रशमं लभते नरः इति चक्रकृतः पाठः ।
For Private and Personal Use Only