________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
चिकित्सितस्थानम्।
२४४५ कामशोकभयाटु वायुः क्रोधात् पित्तं त्रयो मलाः। भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः। भूताधिकारे व्याख्यातं तदष्टविधलक्षणम् ॥ ६८॥
ननु कामादितस्तु को दोष इत्यत आह-कामशोकभयाद्वायुः इत्यादि। मुश्रुते तु “कामजे चित्तविभ्रशस्तन्द्रालस्यमभक्तरुक् । हृदये वेदना चाशु गात्रश्च परिशुष्यति। भयात् प्रलापः शोकाच भवेत् कोपाच्च वेपथुः । भूताभिपङ्गादुद्वेगो हास्यरोदनकम्पनम् ।” इति, कथं क्रोधजे पित्तकोपाद वेपथुः स्यात् न हि कम्पो वायुना विना स्यादिति चेन्न। कामशोकभयाद वायुरेव क्रोधात् पित्तं वायुश्वानुवर्तते एव पश्चानिर्देशात् । विदेहेन ह्युक्तं “क्रोधशोको स्मृतौ वातरक्तपित्तप्रकोपणौ।” इति । अस्तु शोकादपि पित्तम् । न हि समासनिविष्टकाम भयपदं हिला शोकपदान्वयः सम्भवति । पित्तेन सहेति चेन, कामादिभिर्वायुः प्राधान्येन कुप्यति, क्रोधात् पित्तं प्राधान्येन कुप्यति, तत्राप्राधान्येन शोकात् पित्तरक्तकोपः क्रोधाद्वायुकोप इत्यभिप्रायेणात्राचार्यः क्रोधाद्वायोः शोकात् पित्तरक्तयोः कोपं नोक्तवान् न चैतावता प्रतिषेधति । भूताभिषङ्गात् त्रयो मलाः कुप्यन्ति। ननु तर्हि किं भूताभिषङ्गजस्त्रिदोषजलक्षण इत्याशङ्कयाह-भूत'सामान्यलक्षणा इति । येन भूतेनाभिषक्तस्य ज्वरोभवति तस्य यल्लक्षणं तल्लक्षणसामान्येन समानतया लक्षणं येषां ते तथा, न तु स्वस्खलक्षणवन्त इत्यर्थः ।
ननु भूतानां मध्ये कस्य भूतस्य किं लक्षणमित्यत आह---भूताधिकारे इत्यादि। भूताधिकारे भूतोन्मादमधिकृत्य तदष्टविधं भूतानामष्टानाम् अष्टविधलक्षणं व्याख्यातं देवोन्मत्तं गुरुवृद्धाधु न्मत्तं पितृग्रहोन्मत्तं गन्धवोन्मत्तं यक्षोन्मत्तं राक्षसोन्मत्तं ब्रह्मराक्षसोन्मत्तं पिशाचोन्मत्तमिति। उरगोन्मत्तमस्मिंस्तन्त्र तु नोक्तवान् सुश्रुते तु तमुक्तवान् न ब्रह्मराक्षसोन्मत्तमिति विरोधस्तदधिकारे परिहार्यः ॥ ६८॥
ने तस कामायभिषङ्गजे यः प्रायो भवति, तदभिप्रायेणोक्तं “वातपित्ताभ्यामनुबध्यते” इति, कामादिकेषु हि क्वचिद् वातः, क्वचित् पित्तमिति वातपित्तानुबन्धो ज्ञेयः । भूतसामान्यलक्षणा इति डेवस्वरूपादयोऽष्टौ उन्मादे अष्टौ भूता उक्ताः। तेषां मध्ये आवेशकर्तु भूतस्य यल्लक्षणं, तेन समान्यत
३०७
For Private and Personal Use Only