________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४४
चरक-संहिता। ज्वरचिकित्सितम् शस्त्रलोष्ट्रकशाकाष्ठ-मुष्ट्यरनितलद्विजैः। तद्विधैश्च हते गात्र ज्वरः स्यादभिघातजः॥ तत्राभिघातजो वायुः प्रायो रक्तं प्रदूषयन् । सव्यथाशोफवैवण्यं सरुजं कुरुते ज्वरम् ॥ ६७ ॥ कामशोकभयक्रोधेर भिषक्तस्य यो ज्वरः। सोऽभिषगज्वरो ज्ञ यो यश्च भूताभिषगजः॥ गङ्गाधरः-तत्राभिघातज्ज्वरमाह-शस्त्रेत्यादि। शस्त्रादिभिरभिहते गात्रे सति अभिघातजज्वरः स्यात् । शस्त्रं शक्तिशूलादि । कशा अश्वताड़नरज्जुवत् । अरनिहस्तस्तस्य तलं करतलम् । द्विजा दन्ताः। तद्विधः वान्यैरभिहननयोग्यदण्डादिभिः। नन्वभिहते त्वेभिर्गात्रे कथमुत्पद्यते ज्वर इत्यत आह-तत्राभिघातज इत्यादि। सुश्रुतेऽपि "श्रमक्षयाभिधातेभ्यो देहिनां कुपितोऽनिलः । पूरयिखाखिलं देहं ज्वरमापादयेद भृशम्” । इति ॥ ६७॥
गङ्गाधरः-अभिषङ्गजज्वरमाह-कामेत्यादि। अभिपङ्गज्वरस्तु स यः कामाभिषक्तस्य यश्च शोकाभिषक्तस्य यश्च भयाभिषक्तस्य यश्च क्रोधाभिषक्तस्य यश्च भूताभिषक्तस्य शारीरदोषसञ्चयादिनिमित्तमन्तरेण कामादिकारणाभिपङ्गमात्राद् भवति, न तु पूर्व कामाद्यभिषक्तस्य । पश्चादपचारमासेवमानस्य कालान्तरेण यो ज्वरः स्यात् स च शारीर एवोच्यते । यदि कामादिरपि तत्र हेतुः स्यात् तदा तल्लक्षणमपि स्यात्, तदा दोषागन्तुज उच्यते। नन्वभिघाताद वायुः कुपित एव ज्वरं कुरुते कथमागन्तुज्वरः उच्यते, भवति हि वातजखाच्छारीर इति चेन्न, आगन्तुहि व्यथापूच्चों जायते पश्चान्निदोषैरनुवध्यते इत्युक्तो पूर्वमेवाभिघातादस्फुट एव ज्वरो भवति पश्चाद्वायुः प्रकोपमापन्नो रक्तं प्रदृषयन् सव्यथादिलक्षणज्वरं कुरुतेऽभिव्यञ्जयति। एवं कामादिजेषु व्याख्येयम् ।
चक्रपाणिः--कशा सार इति ख्याता ; अल मुष्टिः ‘कील' इति ख्यातः ; हते अभिहते ; प्रायो रक्तमिति अत्यर्थं रक्त दूषयन् मांसादि चाल्पं दूषयतीत्यर्थः । यद्यपि निदानेऽपि "तत्राभिधातजेन घायुना दुष्ठशोणिताधिष्टानेन" इत्युक्तम्, तथापीह रक्तस्य साक्षाद् दुष्टिः, यथा मांसादीनां मनागष्टिरुच्यत इति विशेषः ॥ ६७ ॥
चक्रपाणिः--अभिषङ्गज्वरेषु दोषविशेषमाह-कामेत्यादि। ननु निदाने-"अभिषङ्गजः पुनर्वातपित्ताभ्यामनुबध्यते" इत्युक्तम्, तत् किमिह मूताभिषङ्गजस्य विदोषानुबन्धः ? उच्यते,
For Private and Personal Use Only