________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः !
चिकित्सितस्थानम् ।
निदाने त्रिविधा प्रोक्ता या पृथग्ज - ज्वराकृतिः । संसर्गसन्निपातानां तया चोक्तं स्वलक्षणम् ॥ ६५ ॥ गन्तुष्टो यस्तु स निर्दिष्टश्चतुर्व्विधः । अभिघाताभिषङ्गाभ्यामभिचाराभिशापतः ॥ ६६ ॥
२४४३
लक्षणेभ्यः चेदन्यथा अल्पलक्षणः सव्वसम्पूर्णलक्षणः सन् वा न दोषा विबद्धान वा नष्टोऽग्निस्तदा कृच्छ्रसाध्य इति ख्यापनार्थमधिकानि लक्षणानि नापाठीत् ॥ ६४ ॥
गङ्गाधरः– नन्वेवं चेत् सन्निपातज्वरस्तर्हि किं प्रकृतिसमसमवायारब्धोऽयं किंतु विकृतिविषमसमवायारब्ध इत्याशङ्का विकृतिविषमसमवायारन्धतज्ञापनायाह - निदाने इत्यादि । निदानस्थाने पृथग्जानां वातजपित्तकफजानां ज्वराणां या आकृतिरुक्ता तयैवाकृत्या संसर्गाणां नवानां त्रयोदशानां सन्निपातानाञ्च प्रकृतिसमसमवेतानां स्वलक्षणमुक्तम् । यस्य दोषस्य न्यनाधिकमध्यखानि तदोपलक्षणानां न्यनाधिकमध्यत्वैरभिव्यक्तिस्तथाविधलक्षणानां दर्शनेन च तथा संसर्गान् सन्निपातश्च ज्वरान् भिषणादिशेत् चिकित्सेच्च | वातादीनां हि प्रकृतीनां समसमवायेनाधिकलक्षणासम्भवः । विकृतिविषमसमवायेन तु भवत्यधिकलिङ्गानि च न चास्ति नियमस्तस्मात् इन्दुजा - स्त्रयः सन्निपातश्चैको विकृतिविषमारब्धाश्वत्वारः साक्षात् पठिताः इति भावः ।। ६५ ।।
गङ्गाधरः - अष्टानां सप्त ज्वरा उक्ताः, पारिशेष्यादष्टममागन्तुज्वरमाहआगन्तुरित्यादि । निदाने यस्त्वष्टम आगन्तुज्वर उक्तः स चतुर्व्विधश्च निर्दिष्टः अभिघाताभिषङ्गाभ्यां द्वौ अभिचाराभिशापतश्च द्वौ इति चतुर्व्विधः ॥ ६६ ॥
दर्शितम्, यदुक्तम् - " सन्निपातो दुश्चिकित्स्यानाम्” इति, तथा च भाल्लुकिना - "मृत्युना सह योव्यं सन्निपातं चिकित्सता" इति ॥ ६४ ॥
For Private and Personal Use Only
चक्रपाणिः - निदान इत्यादि । ज्वरनिदाने प्रोक्ता - “तत्र यथोक्तानां लिङ्गानाम्" इत्यादिना ग्रन्थेन प्रागुक्तेत्यर्थः पुनः प्रकरणागतत्वादुच्यन्त इति पुनः पौनरुक्तयम्; तया चोक्तं खलक्षणमिति तथा द्वन्द्वरूपया द्वन्द्वलक्षणं तथा सन्निपातरूपया सन्निपातलक्षणमित्यर्थः ॥ ६५ ॥
चक्रपाणिः - आगन्तु चतुर्व्विधं विभजन्नाह - आगन्तुरित्यादि ॥ ६६ ॥