________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४२
चरक-संहिता। [ज्वरचिकित्सितम् कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम् । कोठानां श्यावरक्तानां मण्डलानाञ्च दर्शनम् ॥ मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च । चिरात् पाकश्च दोषाणां सन्निपातज्वराकृतिः ॥ ६३ ॥ दोषे विवद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः। सन्निपातज्वरोऽसाध्यः कृच्छसाध्यस्ततोऽन्यथा ॥ ६४ ॥
चिरेण पाकात्। अत एव दोषपूर्णवात् गात्राणां नातिकृशतम्। प्रततं निरन्तरं कण्ठकूजनम् । श्यावरक्तानां धूम्ररक्तवर्णानां कोठानां दर्शनं प्रवृत्तिः । श्यावरक्तानां मण्डलानाञ्च दर्शनम्। कोठस्तु-भालुकिना पठितः–“वरटीदष्टनीकाशः कण्डमान् लोहितोऽस्रकफपित्तात्। क्षणिकोत्पादविनाशः कोठ इति निगद्यते तज्ज्ञः” इति। मण्डलो मण्डलाकारः शोफविशेषः। मूकलम् अवचनं स्वल्पवचनत्वं वा। स्रोतसां मुखनासिकादिमहारन्ध्राणां पाकः पचनम्। उदरस्य गुरुत्वम् । दोपाणाञ्च चिरात् पाकस्त्रयाणां दोषाणां विषम समवायारम्भातिसामवाभ्यां भवति। एतानि चिह्नानि प्रायोभावित्वेनोक्तानि तेन चकारेणान्यान्यपि बोध्यानि ॥५०-६३॥
गङ्गाधरः-ननु कथं चरकाचार्यस्तानि लक्षणानि नापाठीदित्यतस्तस्य सन्निपातजज्वरस्यासाध्यवादिलक्षणमाह-दोषे इत्यादि। पित्तादिदोपाप्रवृत्तौ सत्यां सति चाग्नौ जाठरे नष्टे यदि क्षणेदाहादि-चिरदोषपाकान्तलक्षणः सर्वैः सम्पूर्णलक्षणो भवति तदा उक्त एष सन्निपातज्वरोऽसाध्यो भवति, एतदधिकलक्षणस्तु न तथा स्यादेव। ततोऽन्यथा क्षणेदाहादिचिरदोषपाकान्तेभ्यो
स्वल्पोदिरणम् ; शिरसो लोठनमिति इतस्ततो नयनम् ; कृशत्वं नातिगाताणां दोषपूर्णत्वेन ; प्रततं निरन्तरम् । कोठो भाल्लुकीये-'वरटीदसष्टङ्काशः कण्डूमान् लोहितोऽस्रकफपित्तात् । क्षणिकोत्पादविनाशः कोठ इति निगद्यते तजज्ञः ।" इति ; मूकत्वं मन्दवचनत्वम्, अवचनता वा ॥३॥
चक्रपातिः-सन्निपातस्याचसाध्यताकृच्छसाध्यतालक्षणमाह-दोष इत्यादि। अत्र ‘दोष'शब्दो घिबद्धोपपदात् मले वर्त्तते ; आहारापाकान्नष्टेऽग्नावित्यर्थः; सर्वाणि च सम्पूर्णानि बलीयांसि लक्षणानि यस्य स सर्वसम्पूर्णलक्षणः ; असाध्यकृच्छ्रसाध्याभिधानेन सुखसाध्यो न भवतीति
For Private and Personal Use Only