SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः २४४१ चिकित्सितस्थानम् । क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा। सास्रावे कलुषे रक्ते निर्भुगणे चापि दर्शने ॥ सस्वनौ सरुजौ कौँ कण्ठः शूकैरिवावृतः। तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भमः॥ परिदग्धा खरस्पर्शा जिह्वा स्वस्ताङ्गता परम् । ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च ॥ शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा। स्वेदमूत्रपुरीषाणां चिराद दर्शनमल्पशः ॥ यद् यल्लक्षणं भवति तदेवाचार्याः प्रायेण पठन्ति ; तस्मादत ऊद्ध विकृतिविषमसमवायारब्धसन्निपातज्वरस्य लक्षणमाह-क्षणे दाह इत्यादि। अस्थ्यादीनां रुजा शूलम्। दर्शने नेत्रे द्वे सास्रावे अश्रुपूर्णे, कलुषे आविले विवणे वा, रक्ते रक्तवणे, निभग्णे भुग्नखान्निर्गते विस्फारिते इत्यर्थः, अन्तःप्रविष्टे इत्यन्ये, कोटराक्षे वा अतिकुटिले इति कश्चित् । कणौ च सस्वनादी। शूकैः शुकवद्भिर्धान्यशूकशिम्बादिभिरात इव कण्ठः। जिह्वा च परिदग्धा दग्धवत् कृष्णवर्णा, खरस्पर्शा गोजिह्वावदममृणस्पर्शा च। स्रस्ताङ्गता निःसहायाङ्गावयवता। कफेनोन्मिश्रितस्य रक्तपित्तस्य रागतो रक्तवर्णखापन्नस्य पित्तस्य ष्ठीवनं मुखेन स्वल्पोदगिरणम् । शिरसो लोठनम् इतस्ततः शिरसश्चालनम्। हृदि व्यथा वक्षःशूलम्। स्वेदादीनामल्पदशनमल्पपत्तिश्चिरात् दोषाणां व्याख्यानयन्ति ; यत्-सास्रावकलुषनिर्भुग्णेलोचनत्वादीह वक्तव्यम्, न तत् पृथग्वातादिज्वरलक्षणमेलके भवति, किन्तु विकृतिविषमसमवायारव्धज्वरसंयोगमहिना भवतीति ; वयन्तु धूमः-यदि 'अर्द्ध 'शज्देन विकृतिविषमसमवायारब्धज्वरलक्षणाभिधानमिह प्रतिज्ञायते, तदा यत् प्रत्येकदोषलक्षणमेलकेनोपपन्न लक्षणम् -- "क्षणे दाहः क्षणे शीतम्" इत्यादि, तदिहानभिहितं स्यात्, सामान्येन यान्यन प्रायः प्रादुर्भवन्ति, तानि विकृतिविषमसमवायारब्धानि तथा प्रकृतिसमसमवायारब्धानि च लक्षणान्युच्यन्ते। अत ऊर्द्ध मिति पदस्य चातः परेणेत्यर्थः ॥ ५०-६२॥ चक्रपाणिः-निर्भुग्णे इति अतिकुटिले। परिदग्धा दग्धवत् कृष्णावर्णा ; खरस्पर्श गोजिह्वावत् । स्वस्ताङ्गता निःसहायावयवता; ठीवनं रक्तस्य पित्तस्य वा मुखेन For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy