________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४०
चरक-संहिता। ज्वरचिकित्सितम् छर्दिः शैत्यं मुहुर्दाहस्तृष्णा मोहोऽस्थिवेदना। मन्दवाते व्यवस्यन्ति लिङ्ग पित्तकफोल्वणे ॥ ५३॥ सन्ध्यस्थिशिरसः शूलं प्रलापो गौरवं भ्रमः। वातोल्वणे स्याद् द्वानुगे तृष्णा कण्ठास्यशुष्कता ॥ ५४॥ रक्तविणमूत्रता दाहः स्वेदस्तुड़ बलसंक्षयः। मूर्छा चेति त्रिदोषे स्याल्लिङ्ग पित्ते गरीयसि ॥ ५५ ॥ आलस्यारुचिहृल्लास-वमिदाहतृषाभ्रमैः । कफोल्वणं सन्निपातं तन्द्रा कासेन चादिशेत् ॥ ५६ ॥ प्रतिश्या च्छदिरालस्यं तन्द्रारुच्यग्निमाईवम् । हीनवाते पित्तमध्ये लिङ्गं श्लेष्माधिके मतम् ॥ ५७॥ हारिद्रमूत्रनेत्रत्वं दाहस्तृष्णा भ्रमोऽरुचिः। हीनवाते मध्यकफे लिङ्ग पित्ताधिके मतम् ॥ ५८॥ शिरोरुग् वेपथुः श्वासः प्रलापच्छदारोचकाः। हीनपित्ते मध्यकफे लिङ्ग वाताधिक मतम् ॥ ५६ ॥ शीतको गौरवं तन्द्रा प्रलापोऽस्थिशिरोऽतिरुक् । हीनपित्ते वातमध्ये लिङ्गं श्लेष्माधिके मतम् ॥ ६०॥ पभेदोऽग्निदौर्बल्यं तृष्णा दाहोऽरुचिमः। कफहीने मध्यवाते लिङ्ग पित्ताधिके मतम् ॥ ६१ ॥ श्वासः कासः प्रतिश्यायो मुखशोषोऽतिपार्श्वरुक्। कफहीने पित्तमध्ये लिङ्ग वाताधिक मतम् ॥ ६२॥
* दाहवम्यरतिभ्रमैरिति पाठान्तरम् ।
For Private and Personal Use Only