________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः ] चिकित्सितस्थानम् ।
२४३५ गुरुत्वं शीतमुद्वगः सदनं छरोचको।
रसस्थिते वहिस्तापः साङ्गमर्दो विजृम्भणम् ॥ ३८॥ करोति च। करोत्यादौ तथा पित्तं वकस्थं दाहमतीव च। तस्मिन् प्रशान्ते खितरौ कुरुतः शीतमन्ततः। द्वावेतो दाहशीतादी ज्वरो संसगजौ स्मृतौ । दाहपूर्वस्तयोः कष्टः कृच्छ साध्यतमश्च सः। प्रलिम्पन्निव गात्राणि घर्मेण गौरवेण वा। मन्दज्वरविलेपी च सशीतः स्यात् प्रलेपकः। नित्यं मन्दज्वरो रुक्षः शनकस्तेन सीदति। स्तब्धाङ्गः श्लेष्मभूयिष्ठो नरो वातबलासकी। समौ वातकफो यस्य हीनपित्तस्य देहिनः । प्रायो रात्री ज्वरस्तस्य दिवा हीनकफस्य च। विदग्धेऽन्नरसे देह श्लेष्मपित्ते व्यवस्थिते। तेनाद्ध शीतलं देहे चाद्धश्चोष्णं प्रजायते। काये दुष्टं यदा पिस्तं श्लेष्मा चान्ते व्यवस्थितः। उष्णत्वं तेन गात्रस्य शीतत्वं हस्तपादयोः। काये श्लेष्मा यदा दुष्टः पित्तमन्ते व्यवस्थितम् । शीतत्वं तेन गात्राणामुष्णत्वं हस्तपादयोः।” इति। “वातेनोद्धयमानस्तु यथा पूर्येत सागरः। वातेनोदीरितास्तद्वद दोषाः कुव्वन्ति वै ज्वरान् । यथा वेगागमे वेलां छादायत्वा महोदधेः। वेगहानो तदेवाम्भस्तत्रैवान्तर्णिधीयते। दोपवेगोदये तद्वदुदोर्यंत ज्वरस्य वा। वगहाना प्रशाम्येत यथाम्भः सागरे तथा।” इति ॥ ३७॥
गङ्गाधरः--अथोद्दिष्टपञ्चविधज्वरानुक्त्वा पुनराश्रयभेदन धातूनां सप्तधा मत इति यदाद्दिष्टं तज्ज्वरस्य धात्वाश्रयभेदन सप्तविधत्वं दर्शयति-गुरुत्वमित्यादि। एतानि तु दोषाणां रसादिधात्वाश्रितत्वे भवन्ति न च वातादिलिङ्गानि परिभूय भवन्ति, तेन वातादिजानां ज्वराणां यानि यानि लक्षणानि उक्तानि तानि चैतानि च दोषाणां यथावलं भवन्ति । उक्तं ह्यन्यत्र “वातपित्तकफोत्थानां ज्वराणां लक्षणं यथा। तथा तेषां भियग व याद रसादिष्वपि बुद्धिमान् ॥” इति । अस्थायं भावः-वातादिदोपः कुपितः सन् रक्तादिदपणमन्तरेण न ज्वरमुत्पादयति तत्र रसादिदूष्यभवाणीमानि वातादिदोषभवाणि निदानस्थान प्रोक्तानि वक्ष्यमाणानि चात्रापि वोध्यानि । ननु “संसृष्टाः सन्निपतिताः पृथग वा कुपिता मलाः। रसाख्यं धातुमन्वेत्य पक्तिं स्थानानिरस्य च।" इत्यादिना ज्वरस्य सम्प्राप्तिक्ष्यते, तत्र रसधात्वन्वयमन्तरेण ज्वरोत्पत्तितॊक्ता कथं रक्ताद्याश्रितत्वं वातादीनां सम्भवतीति चेन्न। पूर्व वातादयः पृथग द्वन्द्वाः सन्निपतिता वा रसधातुमन्वेत्यैव ज्वरमुत्पादयन्ति तदामरसमम्बन्धात् ।
For Private and Personal Use Only